Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
मलधारिश्रीराजशेखरसूरिविरचितः षड्दर्शनसमुच्चयः
नत्वा निजगुरून् भक्त्या स्मृत्वा वाङ्मयदेवताम् । सर्वदर्शनवक्तव्यं वक्ति श्रीराजशेखरः ॥१॥ धर्मः प्रियः सर्वलोके तं ब्रूयुर्दर्शनानि षट् । तेषां लिङ्गे च वेषे च आचारे दैवते गुरौ ॥२॥ प्रमाणतत्त्वयोर्मुक्तौ तर्के भेदो निरीक्ष्यते । मुक्तिरष्टाङ्गयोगेनेत्येतत् साधारणं वचः ॥३॥ जैनं साङ्ख्यं जैमिनीयं यौगं वैशेषिकं तथा । सौगतं दर्शनान्येवं नास्तिकं तु न दर्शनम् ॥४॥ तत्र जैनमते लिङ्गं रजोहरणमादिमम् । मुखवस्त्रं च वेषश्च चोलपट्टादिकः स्मृतः ॥५॥ विस्तरस्त्वोघनिर्युक्ते यो वेषादिगोचरः । आचारः पञ्चसमितिगुप्तित्रितयलक्षणः ॥६॥ ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गसङ्घकाः । पञ्चाहुः समितीस्तिस्रो गुप्तिस्त्रियोगनिग्रहात् ॥७॥ तीर्थङ्कराश्चतुर्युक्ता विंशतिवृषभादयः । क्लिष्टाष्टकर्मनिर्मुक्ताः केवलज्ञानभास्कराः ॥८॥ महाव्रतधरो धीरः सर्वागमरहस्यवित् । क्रोधमानादिविजयी निर्ग्रन्थो गुरुरुच्यते ॥९॥
• ८५ .

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146