Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 120
________________ उपसंहारमाह लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥८७॥ (सो०) एवममुना प्रकारेण लोकायतमतेऽप्ययं सक्षेपो निवेदितः । अपिः समुच्चये । न केवलं परमते सङ्केप उक्तो लोकायतमतेऽपि । अथ सर्वदर्शनसम्मतसङ्ग्रहे परस्परकल्पितानल्पविकल्पजल्परूपे निरूपिते किंकर्त्तव्यमूढानां प्राणिनां कर्त्तव्योपदेशमाह-अभिधेयेति । सुबुद्धिभिः पण्डितैरभिधेयतात्पर्यार्थः पर्यालोच्यः । अभिधेयं कथनीयं मुक्त्यङ्गतया प्रतिपाद्यं यद्दर्शनस्वरूपं तस्य तात्पर्यार्थः सारार्थो विचारणीयः । सुबुद्धिभिरिति शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः । यदुक्तम् आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ इति दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक् पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढस्य प्राणिनः सर्वस्य पृथक्त्यो दुर्लभं स्वर्गापवर्गसाधकत्वम् । अतो विमर्शनीयस्तात्त्विकोऽर्थः यथा च विचारितं चिरन्तनैः । श्रोतव्यः सौगतो धर्मः कर्त्तव्यः पुनरार्हतः । वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥ इत्यादि विमृश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमतिभिरिति पर्यन्तश्लोकार्थः । तत्समाप्तौ समाप्ता चेयं षड्दर्शनसमुच्चयसूत्रटीका । श्रीरुद्रपल्लीयगणे गणेशः, श्रीचन्द्रसूरिर्गुणराशिरासीत् । तबन्धुरिन्दुप्रभकीर्तिभूरि-र्जीयाच्चिरं श्रीविमलेन्द्रसूरिः ॥ नन्दन्तु श्रीगुरवः, श्रीगुणशेखरमुनीश्वरास्तदनु । श्रीसङ्घतिलकसूरि-स्तत्पट्टे जयतु चिरमधुना ॥ तत्पदपयोजभृङ्गो, विद्यातिलको मुनिर्निजस्मृतये । षड्दर्शनीयसूत्रे, चक्रे विवृति समासेन ॥ • ८३ . .

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146