Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
प्रत्यक्षं च परोक्षं च द्वे प्रमाणे इह स्मृते । तत्र प्रमेयं स्याद्वादाधिष्ठितं द्रव्यषण्मयम् ॥१०॥ धर्माधर्मों नभः कालः पुद्गलश्चेतनस्तथा । द्रव्यषटकमिदं ख्यातं तद्भेदास्त्वागमे स्मृताः ॥११॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धो विनिर्जरामोक्षौ नवतत्त्वी मताऽर्हताम् ॥१२॥ चैतन्यलक्षणो जीवः स्यादजीवस्ततोऽन्यथा । सत्कर्मपुद्गलाः पुण्यं पापं दुष्कर्मपुद्गलाः ॥१३॥ कषाया विषया योगा इत्याद्या आश्रवा मताः । आश्रवाद्विरमणं यत् तत् संवर इति स्मृतः ॥१४॥ शुभाशुभानां ग्रहणं कर्मणां बन्ध इष्यते । पूर्वोपार्जितकर्मोघजरणं निर्जरा स्मृता ॥१५॥ कर्मक्षयेण जीवस्य स्वस्वरूपस्थितिः शिवम् । . एषां नवानां श्रद्धाने चारित्रात् तत्तु लभ्यते ॥१६॥ श्वेताम्बरा वन्द्यमाना धर्मलाभं प्रचक्षते । शुद्धां माधुकरी वृत्ति सेवन्ते भोजनादिषु ॥१७॥ ख्याताः प्रमाणमीमांसा प्रमाणोक्तिसमुच्चयः । नयचक्रवालतर्कः स्याद्वादकलिका तथा ॥१८॥ प्रमेयपद्ममार्तण्डस्तत्त्वार्थ: सर्वसाधनः । धर्मसङ्ग्रहणीत्यादितौघा जिनशासने ॥१९॥ जैने मत उभौ पक्षौ श्वेताम्बरदिगम्बरौ । श्वेताम्बरः पुरा प्रोक्तः कथ्यतेऽथ दिगम्बरः ॥२०॥ दिगम्बराणां चत्वारो भेदा नाग्न्यव्रतस्पृशः । काष्ठासङ्घो मूलसङ्घः सङ्घौ माथुरगोप्यकौ ॥२१॥
.८६ .

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146