Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
तच्छास्त्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह
तथा च तन्मतम्
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥८१॥
(सो०) तथा चेत्युपदर्शने । तन्मतं प्रस्तावान्नास्तिकमतम् । कथम् ? इत्याह- . .. - अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् यावन्मात्रमिन्द्रियगोचरः । इन्द्रियं स्पर्शनरसनघ्राणचक्षुःश्रोत्रभेदात् पञ्चविधं तस्य गोचरो विषयः । पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किञ्चन । अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य सङ्ग्रहः । तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्रत्यक्षाभावादेव । अप्रत्यक्षमप्यस्तीति चेच्छशशृङ्गवन्ध्यास्तनन्धयादीनामपि भावोऽस्तु । तथा हि-स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते । रसनेन्द्रियेण तिक्त-कटु-कषायाम्लमधुरास्वाद-लेह्य-चूष्य-पेयादयो वेद्यन्ते । घ्राणेन्द्रियेण मृगमद-मलयजघनसारागुरु-प्रभृति-सुरभि-वस्तु-परिमलोद्गारपरम्पराः परिचीयन्ते । चक्षुरिन्द्रियेण भू-भूधर-पुर-प्राकार-घट-पट-स्तम्भ-कुम्भाम्भोरुहादि-मनुष्य-पशु-श्वापदादिस्थावर-जङ्गम-पदार्थ-सार्था अनुभूयन्ते । श्रोत्रेन्द्रियेण तु प्रथिष्ठ-गाथकपथपथिक-प्रथ्यमान-तालमान-मूर्च्छनाप्रेखोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते । इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते । शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत् । ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासानुबन्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टिकया स्वजन्म क्षपयन्ति, तन्महासाहसं तेषामिति । किञ्चाप्रत्यक्षमप्यस्तितयाभ्युपगम्यते चेज्जगदनपद्रुतमेव स्यात् । दरिद्रो हि स्वर्णराशिर्मेऽस्तीत्यनुध्याय हेलयैव दौःस्थ्यं दलयेत्, दासोऽपि स्वचेतसि स्वामितामवलम्ब्य स्वस्य किङ्करतां निराकुर्यादिति, न कोऽपि स्वानभिमतमालिन्यमश्नुवीत । एवं न कश्चित्सेव्यसेवकभावो दरिद्रिधनिभावो वा
• ७८ .

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146