SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भवतीति अन्वयद्वारेण वस्तुपरिच्छेदः, तदधिकमभावैकरूपं निराचष्टे । नैवं घटाभावप्रतिबद्ध-भूतलग्रहणासिद्धेः नास्तिताग्रहणावसरे प्रामाण्यमेव भावस्य मानसोत्पन्नम् ॥७६॥ उपसंहरन्नाह— जैमिनीयमतस्यापि सङ्क्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सङ्क्षेपकीर्तनम् ॥७७॥ ( सो० ) अपिशब्दान्न केवलमपरदर्शनानां जैमिनीयमतस्याप्ययं सङ्क्षेपो निवेदितः कथितः । वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् सङ्क्षेप एव प्रोक्तोऽस्ति । अथ सूत्रकृत्सम्मतसङ्क्षेपमुक्त्वा निगमनमाह-एवमिति । एवमित्थम्, आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्ध - नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयानां सङ्क्षेपकीर्त्तनंकृतं सङ्क्षेपेण वक्तव्यमभिहितमित्यर्थः ॥७७॥ " (अव०) उपसंहरन्नाह - अपिशब्दात् न केवलमपरदर्शनानां जैमिनीयमतस्यापि कथितः । वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् । एवमास्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्ध-नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयानां सङ्क्षेपकीर्त्तनं कृतम् ॥७७॥ विशेषान्तरमाह— नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥ (सो० ) अन्ये आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ॥७८॥ (अव० ) विशेषान्तरमाह । अन्ये आचार्याः नैयायिकमताद् वैशेषिकैः सह भेदं न मन्यन्ते । दर्शनाधिष्ठात्रैकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया I • ७६ •
SR No.022471
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2002
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy