________________
आस्तिकवादिनः पञ्चैव ॥७॥
दर्शनानां षट् सङ्ख्या जगति प्रसिद्धा सा कथं फलवतीत्याह
षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल ।
लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ॥७९॥ (सो०) ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसङ्ख्या लोकायतमतक्षेपात्पूर्यते । तुः पुनरर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ॥७९॥
(अव०) दर्शनानां षट्सङ्ख्या कथं फलवतीत्याह तन्मते नैयायिकवैशेषिकाभेदमन्यमानकाचार्यमते षट्दर्शनसङ्ख्या लोकायितमतक्षेपात् पूर्यते । तुः पुनरर्थे । किलेत्याम्नाये । तेन कारणेन तन्मतं चार्वाकमतं कथ्यते ॥७९॥
.. तदेवाह
लोकायता वदन्त्येवं नास्ति देवो न निवृत्तिः । धर्माधौं न विद्यते न फलं पुण्यपापयोः ॥८॥
(सो०) लोकायता नास्तिका एवममुना प्रकारेण वदन्ति कथम् ? इत्याह-देवः सर्वज्ञादिर्नास्ति, निर्वृतिर्मोक्षो नास्ति, अन्यच्च न विद्यते, कौ ? धर्माधौं, धर्मश्चाधर्मश्चेति द्वन्द्वः, पुण्यपापे सर्वथा न स्त इत्यर्थः । पुण्यपापयोर्धर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि ॥८॥
_ (अव०) लोकायिता नास्तिका एवममुना प्रकारेण वदन्ति-देवः सर्वज्ञादिः निर्वृतिर्मोक्षः, धर्मश्च अधर्मश्च द्वन्द्वः, पुण्यपापयोः फलं स्वर्गनरकादिकं च नास्ति, धर्माधर्माभावे कौतस्कुतं तत्फलम् ॥८॥