________________
आद्यमनुमानमिह शास्त्रे कारणात्कार्यानुमानमुदितं कारणान्मेघात् कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यं नामानुमानं कथितमित्यर्थः ॥१९॥
(अव०) पूर्ववच्छेषवत् सामान्यतो दृष्टम् । तत्र त्रिषु मध्ये कारणात् मेघात् कार्यं तवृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यमनुमानं निदर्शनेन द्रढयति ॥१९॥
निदर्शनेन तमेवार्थं द्रढयन्नाह यथारोलम्बगवलव्यालतमालमलिनत्विषः ।
वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः ॥२०॥
(सो०) यथेति दृष्टान्तकथनारम्भे । रोलम्बाः भ्रमराः, गवलं माहिषं शृङ्गम्, व्याला गजाः, सर्पा वा, तमाला वृक्षविशेषाः, सर्वेऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवम्प्राया एवंविधाः पयोमुचो मेघा वृष्टिं न व्यभिचरन्तीति । एवम्प्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादि विशेषा ज्ञेयाः । यदुक्तम्
गम्भीरगर्जितारम्भनिभिन्नगिरिगह्वराः । तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ॥ [न्यायमञ्जरी] इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥२०॥
(अव०) रोलम्बा भ्रमराः, गवलं माहिषं शृङ्गम्, व्याला: गजाः सर्पा वा, तमाला वृक्षाः, मलिना अर्थात् कृष्णा त्विट् येषाम् । एवम्प्राया इत्युपलक्षणेन परेऽत्युन्नतत्वर्जितत्वादयो विशेषा ज्ञेयाः ॥२०॥
शेषवन्नामधेयं द्वितीयमनुमानभेदमाह
कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥२१॥ (सो०) यत्कार्यात् फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं
• १७ .