________________
तच्छेषवदनुमानं मतं कथितं नैयायिकशासने । यथा तथाविधनदीपूरादुपरि मेघो वृष्टस्तथाविधप्रवहत्सलिलसम्भारभरितो यो नदीपूरः सरित्प्रवाहस्तस्मादुपरि शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेषवत् । अत्र कार्यं नदीपूरः कारणं च पर्वतोपरि मेघो वृष्ट इति । उक्तञ्च नैयायिकैः
आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुटफेनच्छटाङ्कितः ॥
वहदहुलशेवालफलशाड्वलसङ्कलः ।
नदीपूरविशेषोऽपि शक्यते न निवेदितुम् ॥ २१ ॥ इति
(अव० ) यच्च कार्यात्फलात् कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवत् । यथाविधप्रवहत्सलिलनदीपूरात् उपरिशिखरिशिखरोपरि जलाभिवर्षणज्ञानम् ॥२१॥
तृतीयानुमानमाह—
यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥
( सो० ) चः पुनरर्थे । यत् सामान्यतो दृष्टमनुमानं तदेवममुना वक्ष्यमाणप्रकारेण । यथा पुंसि पुरुषे देवदत्तादौ देशान्तरप्राप्तिर्गतिपूर्विका । एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वकमित्यर्थः । यथेोज्जयिन्याः प्रस्थितो देवदत्तो माहिष्मतीं पुरीं प्राप्तः । सूर्येऽपि सा तथेति यथा पुंसि तथा सूर्यऽपि सा गतिरभ्युपगम्यते । यद्यपि गगने सञ्चरतः सूर्येस्य नेत्रावलोकप्रसरणाभावेन गतिर्नोपलभ्यते, तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बनं गतिं सूचयति । एवं सामान्यतो दृष्टमनुमानं ज्ञेयमित्यर्थः ॥२२॥
( अव० ) चः पुनरर्थे । सामान्यतो दृष्टं तदनुमानं यथा पुंसि देवदत्तादौ देशान्तरत्वाप्तिर्गतिपूर्विका दृष्टा यथा उज्जयिन्याः प्रस्थितो माहिष्मतीं प्राप्तः । तथा सूर्यस्य उदयाचलात् सायमस्ताचलगमनं ज्ञापयति ॥२२॥
• १८ •