________________
अथ क्रमायातमपि शाब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्ष्यादावुपमानलक्षण
माह
प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं तदाख्यातं यथा गौर्गवयस्तथा ॥२३॥
(सो०) तदुच्यमानमुपमानमाख्यातं कथितम् । यत्तदोनित्य सम्बन्धात् । यत्किञ्चिद् अप्रसिद्धस्य साधनम् अज्ञायमानस्यार्थस्य ज्ञापन क्रियते । प्रसिद्धधर्मसाधर्म्यादिति-प्रसिद्धः आबालगोपालाङ्गनाविदितोऽसौ धर्मोऽसाधारणलक्षणं तस्य साधर्म्य-समानधर्मत्वं तस्मादित्युपमानमाख्यातम् । दृष्टान्तमाह-यथा गौर्गवयस्तथेति-यथा कश्चिदरण्यवासी नागरिकेण कीदृग्गवय ? इति पृष्टः, स च परिचितगोगवयलक्षणो नागरिकं प्राह-'यथा गौस्तथा गवयः', खुरककुदलाङ्गलसास्नादिमान् यादृशो गौस्तथा जन्मसिद्धो गवयोऽपि ज्ञेय इत्यर्थः । अत्र प्रसिद्धो गौस्तत्साधादप्रसिद्धस्य गवयस्य साधनमिति ॥२३॥
(अव०) क्रमागतमपि शाब्दप्रमाणमुपेक्ष्य उपमानमाह-प्रसिद्धति । तदुपमानं यत्तदोर्नित्याभिसम्बन्धात् । यत्किञ्चिद् अप्रसिद्धस्य अज्ञायमानस्य अर्थस्य ज्ञापन प्रसिद्धधर्मसाधादाबालगोपालाङ्गानाविदितात् क्रियते । साधर्म्य समानधर्मत्वम् । यथा अरण्यवासी चिरपरिचितगोगवयलक्षणो नागरिकेण गावा लक्षणवता पृष्टो दृष्टान्तमदात् ॥२३॥
उपमानं व्यावर्ण्य शाब्दप्रमाणमाहशाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि च ॥२४॥
(सो०) तु पुनराप्तोपदेशः शाब्दम् । अवितथवादी हितश्चाप्तः प्रत्ययितजनस्तस्य य उपदेश आदेशवाक्यं तच्छाब्दम् आगमप्रमाणं ज्ञेयमिति । एवमुक्तभङ्ग्या मानं प्रमाणं चतुर्विधं चतुष्प्रकारं निष्ठितमित्यर्थः ।
अथ प्रमेयलक्षणमाह- 'प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति'