________________
प्रमाणग्राह्योऽर्थः प्रमेयं, तुः पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां सङ्ग्रहः तच्च नैयायिकसूत्रे आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधम् । तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मैरात्मा प्रमीयते । एवं देहादयोऽपि प्रमेयतया ज्ञेयाः । अत्र तु ग्रन्थविस्तारभयान्न प्रपञ्चिता इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाच्चेति ॥२४॥
(अव०) तुः पुनः । आप्तोऽवितथवादी हितश्च यो जनस्तस्य तथ्यो हितोपदेशो देशनावाक्यं तच्छाब्दमागमप्रमाणम् । अथ प्रमाणलक्षणमाह-प्रमाणग्राह्योऽर्थः प्रमेयम् । तुः पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन षण्णां प्रमेयार्थानां परिग्रहः । तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिना आत्मा अनुमीयते, एवं देहादयः, अत्र तु ग्रन्थविस्तरभिया न प्रपञ्चिताः ॥२४॥
संशयादिस्वरूपमाह
किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥२५॥
(सो०) दूरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राहकिमेतदिति । एतत्कि स्थाणुर्वा पुरुषो वेति यः सन्दिग्धः प्रत्ययः स संशयो नाम तत्त्वविशेषो मतः सम्मतः तच्छासन इति । प्रयोजनमाह-तत्तु तत्पुनः प्रयोजनं नाम तत्त्वं यत् किमित्याह-अर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते । प्रतीत्यध्याहार्यम् । 'न हि निष्फलकार्यारम्भ' इत्यर्थित्वादुक्तम् । एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ॥२५॥
(अव०) संशयादिस्वरूपमाह । दूरावलोकनेन पदार्थपरिच्छेदकधर्मेषु किमेतदिति सन्देहोऽयंः स्थाणुर्वा पुरुषो वेति संशयः । अर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते प्रतीत्यध्याहार्यम् । न हि निष्फलः कार्यारम्भ इति ॥२५॥
दृष्टान्तस्तु भवेदेष विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥
.२० .