________________
(सो०) तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् । यत्किमिति ? विवादविषयो न यः यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति । इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः । तावच्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः । उक्तञ्च
तावदेव चलत्यर्थो मन्तुर्गोचरमागतः ।
यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ॥ एष दृष्टान्तो ज्ञेयः ।
सिद्धान्तः पुनश्चतुर्भेदो भवेत् । कथम् ? इत्याह-सर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः । आदिशब्दाद् भेदत्रयमिदं ज्ञेयम् । यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । अमी चत्वारः सिद्धान्तभेदाः, नाममात्रकथनमिदम्, विस्तरग्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥२६॥
(अव०) यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति उभयसम्मतत्वात् । उक्तञ्च
तावदेव चलत्यर्थो मन्तुर्विषयमागतः ।
यावन्नोत्तम्भनेनैव दृष्टान्तो नावलम्ब्यते ॥
एष दृष्टान्तः । सिद्धान्तः पुनश्चतुर्धा-सर्वतन्त्र-प्रतितन्त्र-अधिकरण-अभ्युपगमभेदात् । विशेषार्थो विस्तरग्रन्थादवसेयो नाममात्रकथनम् ॥२६॥
अवयवादितत्त्वत्रयस्वरूपमाहप्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयोपरमो भवेत् ॥२७॥ यथा काकादिसम्पातात् स्थाणुना भाव्यमत्र हि । ऊर्ध्वं सन्देहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ (सो०) अवयवाः पञ्चेति सम्बन्धः । पूर्वार्द्धमाह-प्रतिज्ञाहेतु
• २१ .