________________
व्यवसायात्मकं व्यवहारसाधकम् । सजलधरणितले हि बहलशाड्वलवृक्षावल्यामिन्द्रियार्थसान्निध्योद्गतमपि जलज्ञानं तत्प्रदेशसङ्गमेऽपि स्नानपानादिव्यवहारासाधकत्वादप्रमाणम् । अतः सफलं व्यवसायात्मकमिति विशेषणम् । तथा व्यपदेशविवर्जितमिति व्यपदेशो विपर्ययस्तेन रहितम् । तथाहि - आजन्मकाचकामलादि-दोष - दूषित - चक्षुषः पुरुषस्य धवलशङ्खे पीतज्ञानमुदेति तद्यद्यपि सकलकालं तन्नेत्रदोषाविरामादिन्द्रियार्थसन्निकर्षोत्पन्नमस्ति तथाप्यन्यवस्तुनोऽन्यथाबोधान्न तद्यथोक्तलक्षणं प्रत्यक्षमिति प्रत्यक्षसाधकं विशेषणचतुष्टयमुक्तम् ।
साम्प्रतमनुमानमाह । इतरद् अन्यन्मानमनुमानमुपदिशति तदनुमानं पूर्वं प्रथमं त्रिविधं त्रिप्रकारकं भवेज्जायेत । पूर्वमितिपदेनानुमानान्तरभेदानन्त्यमाह । तत्पूर्वं प्रत्यक्षपूर्वं चेति श्लोकद्वयार्थः ॥ १७ - १८॥
(अव०) चतुः प्रमाणानां नामानि । अथ प्रत्यक्षानुमानस्वरूपमाह - इन्द्रियं चार्थश्चेति तयोः सन्निकर्षात् संयोगादुत्पन्नम्, इन्द्रियार्थयोर्हि नैकट्यात् संयोगाज्ज्ञानम् । यदुक्तम्—
आत्मा सहति मनसा मन इन्द्रियेण,
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसा किमगम्यमस्ति
यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥
अव्यभिचारिकं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो व्यभिचारी । व्यवसायात्मकं व्यवहारसाधकं सजलधरणितले जलज्ञानं व्यवहारासाधकत्वादप्रमाणम् । व्यपदेशो विपर्ययस्तेन रहितं । तु पुनरनुमानं तत्पूर्वं प्रत्यक्षपूर्वं त्रिप्रकारम् ॥१७-१८॥
अनुमानत्रैविध्यमाह—
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्यं कारणात्कार्यानुमानमिह गीयते ॥ १९ ॥
(सो०) पूर्ववत् शेषवत् सामान्यतो दृष्टं चेत्यनुमानत्रयम् । चः समुच्चये । एवेति पूरणार्थे । तथेति उपदर्शने । तत्र त्रिषु मध्ये,
• १६ •