________________
प्ररूपणा नाममात्रप्रकटनमित्यर्थः ।
अथैकैकस्वरूपमाह-तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह-अर्थोपलब्धिहेतुः प्रमाणं स्यात् । अर्थस्य पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं स्याद् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्त्वात्संदिहानस्य सङ्ख्यामुपदिशन्नाहतच्चतुर्विधमिति । तत्प्रमाणं चतुर्विधं ज्ञेयमिति ॥१४-१६॥
(अव०) अत्र नैयायिकमते प्रमाणादीनि षोडशतत्त्वानि यथाक्रम व्याक्रियमाणानि । नामानि सुगमानि । एवम् अमुना प्रकारेण ‘प्रकटनमर्थस्य पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं चतुर्विधम् ॥१४-१६॥
प्रत्यक्षमनुमानं च शाब्दमुपमया सह । तत्रेन्द्रियार्थसम्पर्कोत्पन्नमव्यभिचारिकम् ॥१७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् ।
प्रत्यक्षमितरन्मानं तत्पूर्वं त्रिविधं भवेत् ॥१८॥
(सो०) प्रमाणनामानि निगदसिद्धान्येव, केवलमुपमया सह इत्युपमानं प्रमाणम् । अथ प्रत्यक्षानुमानस्वरूपमाह-तत्रेति ।
तत्र प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृगिति सम्बन्धः । विशेषणान्याहइन्द्रियार्थसम्पर्कोत्पन्नमिति । इन्द्रियं चार्थश्चेति द्वन्द्वः, तयो सन्निकर्षात्संयोगादुत्पन्नं जातम् । इन्द्रियं हि नैकट्यात् पदार्थे संयुज्यते । इन्द्रियार्थसंयोगाज्ज्ञानमुत्पद्यते । यदुक्तम्
आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रम् । योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥
तत्राव्यभिचारिकं ज्ञानान्तरेण नान्यथाभावि । शुक्तिशकले कलधौतबोधो हीन्द्रियार्थसन्निकर्षोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारिकं ग्राह्यम् । तथा
• १५ .