________________
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ इति
भूयोऽपि विशेषयन्नाह 'नित्यबुद्धिसमाश्रयः' इति शाश्वतबुद्धिस्थानम् । क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्यकर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति । ईदृग्गुणविशिष्टः शिवो नैयायिकमतेऽभ्युपगन्तव्यः ॥१३॥
(अव०) अक्षपादा नैयायिकाः । सृष्टिः प्राणिनां समुत्पत्तिः, संहारः तद्विनाशः तत्करोतीति । विश्वस्य हि कश्चित् स्रष्टा संहर्ता विज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमातृत्वमिति प्राणिगणस्यापारत्वात् संहारकर्तापि कश्चिदभ्युपगन्तव्यः जगतः कार्यत्वाच्च । शिव ईश्वरः । विभुः सर्वव्यापकः । नित्यश्चासौ एकश्चेति, अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम्, एकोऽद्वितीयः बहूनां घटनायुक्तेः । सर्वज्ञः स सर्वविशेषज्ञानात् शाश्वतबुद्धिस्थानम्, क्षणिकबुद्धित्वे हि पराधीनता ॥१३॥
अथ तत्त्वानि प्ररूपयन्नाह
तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥१५॥
जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥१६॥
(सो०) अमुत्रास्मिन् प्रस्तुते नैयायिकमते षोडश तत्त्वानि प्रमाणादीनि प्रमाणप्रभृतीनि । तद्यथेति । बालावबोधाय नामान्यप्याह-'प्रमाणप्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निश्रेयससिद्धिः' (न्यायसूत्र १.१.१) इति षोडश । एषामेवं प्ररूपणेति-तत्त्वानामेवम् अमुना प्रकारेण
• १४ .