Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 109
________________ तत्सूत्रेणैव दृष्टान्तयन्नाह–स्वःकामोऽग्नि यजेद्यथा । यथा येन प्रकारेण स्व:कामः स्वर्गाभिलाषी जनोऽग्नि यजेद् अग्निकार्यं कुर्यात् । यथाऽहुस्तत्सूत्रम्-"अग्निहोत्रं जुहुयात्स्वर्गकाम" इति ॥७१॥ (अव०) नोदनैव लक्षणं यस्य स नोदनालक्षणः । तुः पुनः नोदना क्रियां प्रति प्रवर्तकं वचः, वेदोक्तं भवति, नोदना पुनः क्रियां हवनसर्वभूताहिंसनदानादिप्रतिक्रियां प्रति प्रवर्तकं प्रेरकं वचो वेदवचनं प्राहुः मीमांसका भाषन्ते । हवनादिक्रियाविषये यदेव प्रेरकं वेदस्य वचनं सैव नोदनेति भावः । प्रवर्तकं तद्वचनमेव निदर्शनेन दर्शयति स्व:कामोऽग्नि यजेदिति । अथेति उपदर्शनार्थः । स्वः स्वर्गे कामना यस्य स स्व:कामः पुमान् स्व:कामः सन् अग्नि वह्नि यजेत् तर्पयेत् । अत्रेदं श्लोकबन्धानुलोम्येनेत्थमुपन्यस्तम्, अन्यथा त्वेवं भवति-अग्निहोत्रं जुहुयात्स्वर्गकाम इति । प्रवर्तकवचनस्योपलक्षणत्वात् निवर्तकमपि वेदवचनं नोदना ज्ञेया, यथा न हिंस्यात् सर्वभूतानि । [अथ प्रमाणस्य विशेषलक्षणं विवक्षुः प्रथमं तन्नामानि तत्सङ्ख्यां चाह, प्रत्यक्षानुमानशब्दोपमानार्थापत्यभावलक्षणानि षट् प्रमाणानि जैमिनिमुनेः सम्मतानीत्यध्याहारः । चकारः समुच्चयार्थः । तत्राद्यानि पञ्चैव प्रमाणानीति प्राभाकरोऽभावस्य प्रत्यक्षेणैव ग्राह्यतान्नन्यमानोऽभिमन्यते षडपि तानि ते भट्टो भाषते । तत्र प्रमाणषट्कम् अक्षाणामिन्द्रियाणां वेदोक्तस्वर्गसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदना तामाहुः दृष्टान्तेन स्पष्टयति] ॥७१॥ प्रमाणान्याह प्रत्यक्षमनुमानं च शब्दश्चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥ (सो०) जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति सम्बन्धः । यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाट्टानामेव षट् , तथाप्यत्र ग्रन्थकृत्सामान्यतः षट् सङ्ख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव ॥७२॥ (अव०) प्रमाणान्याह । जैमिनेः षट् प्रमाणानि ज्ञेयानि, यद्यपि प्रभाकराणां [ ] एतच्चिनान्तर्गतः पाठोऽत्रासङ्गतो भासते । • ७२ .

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146