________________
तत्सूत्रेणैव दृष्टान्तयन्नाह–स्वःकामोऽग्नि यजेद्यथा । यथा येन प्रकारेण स्व:कामः स्वर्गाभिलाषी जनोऽग्नि यजेद् अग्निकार्यं कुर्यात् । यथाऽहुस्तत्सूत्रम्-"अग्निहोत्रं जुहुयात्स्वर्गकाम" इति ॥७१॥
(अव०) नोदनैव लक्षणं यस्य स नोदनालक्षणः । तुः पुनः नोदना क्रियां प्रति प्रवर्तकं वचः, वेदोक्तं भवति, नोदना पुनः क्रियां हवनसर्वभूताहिंसनदानादिप्रतिक्रियां प्रति प्रवर्तकं प्रेरकं वचो वेदवचनं प्राहुः मीमांसका भाषन्ते । हवनादिक्रियाविषये यदेव प्रेरकं वेदस्य वचनं सैव नोदनेति भावः । प्रवर्तकं तद्वचनमेव निदर्शनेन दर्शयति स्व:कामोऽग्नि यजेदिति । अथेति उपदर्शनार्थः । स्वः स्वर्गे कामना यस्य स स्व:कामः पुमान् स्व:कामः सन् अग्नि वह्नि यजेत् तर्पयेत् । अत्रेदं श्लोकबन्धानुलोम्येनेत्थमुपन्यस्तम्, अन्यथा त्वेवं भवति-अग्निहोत्रं जुहुयात्स्वर्गकाम इति । प्रवर्तकवचनस्योपलक्षणत्वात् निवर्तकमपि वेदवचनं नोदना ज्ञेया, यथा न हिंस्यात् सर्वभूतानि । [अथ प्रमाणस्य विशेषलक्षणं विवक्षुः प्रथमं तन्नामानि तत्सङ्ख्यां चाह, प्रत्यक्षानुमानशब्दोपमानार्थापत्यभावलक्षणानि षट् प्रमाणानि जैमिनिमुनेः सम्मतानीत्यध्याहारः । चकारः समुच्चयार्थः । तत्राद्यानि पञ्चैव प्रमाणानीति प्राभाकरोऽभावस्य प्रत्यक्षेणैव ग्राह्यतान्नन्यमानोऽभिमन्यते षडपि तानि ते भट्टो भाषते । तत्र प्रमाणषट्कम् अक्षाणामिन्द्रियाणां वेदोक्तस्वर्गसाधकाम्नायस्य क्रियाप्रवर्तकं वचनं नोदना तामाहुः दृष्टान्तेन स्पष्टयति] ॥७१॥
प्रमाणान्याह
प्रत्यक्षमनुमानं च शब्दश्चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥
(सो०) जैमिनेः पूर्ववेदान्तवादिनः, षट् प्रमाणानि ज्ञेयानीति सम्बन्धः । यद्यपि प्राभाकराणां मते पञ्च प्रमाणानि, भाट्टानामेव षट् , तथाप्यत्र ग्रन्थकृत्सामान्यतः षट् सङ्ख्यामाचष्टे । प्रमाणनामानि निगदसिद्धान्येव ॥७२॥
(अव०) प्रमाणान्याह । जैमिनेः षट् प्रमाणानि ज्ञेयानि, यद्यपि प्रभाकराणां
[ ] एतच्चिनान्तर्गतः पाठोऽत्रासङ्गतो भासते ।
• ७२ .