________________
मते पञ्च, भाट्टानां षट्; तथापि ग्रन्थकृत् सामान्यतः षट् सङ्ख्यामाचष्टे । प्रमाणनामानि निगदप्रसिद्धान्येव ॥७२॥
निरुक्तमाह
तत्र प्रत्यक्षमक्षाणां सम्प्रयोगे सतां मतिः ।
आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३॥ (सो०) तत्र प्रमाणषट्के, अक्षाणामिन्द्रियाणां, सम्प्रयोगे पदाथैः सह संयोगे, सतामनुपहितेन्द्रियाणां या मतिर्बुद्धिरिदमित्यवबोधः, तत्प्रत्यक्षं प्रमाणं 'भवति' इत्यध्याहारः । यत्तदावनुक्ताप्यर्थसम्बन्धात् ज्ञेयौ । सतामितिविदुषामदुष्टेन्द्रियाणामित्यर्थः । एतावता मरुमरीचिकायां जलभ्रमः, शुक्तौ रजतभ्रमश्चेन्द्रियार्थसम्प्रयोगजोऽपि द्रष्टुरविकलेन्द्रियत्वाभावान्न प्रत्यक्षं तत्प्रमाणकोटिमधिशेते । अनुमानमाह-आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः । आत्मा यदनुमिमीते स्वयं तदनुमानमित्यर्थः । अनुमानलैङ्गिकयोः शाब्दभेदेऽप्यनुमीयत इत्यनुमानं लिङ्गाज्जातं लैङ्गिकमिति व्युत्पत्तिभेदाढ़ेदो ज्ञेय उभयशब्दकथनं तु बालावबोधार्थमेवेति ॥७३॥
- (अव०) अथ प्रत्यक्षप्रमाणस्य लक्षणमाचष्टे-तत्र प्रमाणषट्के अक्षाणामिन्द्रियाणां प्रयोगे पदार्थैः सह संयोगे या बुद्धिरिदमिदमित्यवबोधः तत्प्रत्यक्षम् । सत्तामदुष्टेन्द्रियाणामिति । एतावता मरुमरीचिकायां जलभ्रमः शुक्तौ रजतभ्रमश्च इन्द्रियार्थसम्प्रयोगेऽपि द्रष्टुरविकलेन्द्रियत्वाभावान्न प्रत्यक्षं प्रमाणम् । आत्मा यद्यदनुमिमीते स्वयं तदनुमानमित्यर्थः । लिङ्गाज्जातं लैङ्गिकम् । व्युत्पत्तिभेदानेदः । उभयशब्दकथनं बालावबोधार्थम् ॥७३॥
शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् ।
प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् ॥७४॥ (सो०) शाब्दमागमप्रमाणं शाश्वतवेदोत्थं शाश्वतान्नित्याद्वेदाज्जातम् , आगमप्रमाणमित्यर्थः । शाश्वतत्वं च वेदानामपौरुषेयत्वादेव । उपमानमाह
• ७३ .