Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 105
________________ प्रकारसूचनं, यद्यपि प्रमातृफलाद्यपेक्षया बहु वक्तव्यं, तथाप्येवममुना प्रकारेण वैशेषिकमतस्य सक्षेपः परिकीर्तितः कथित इति ॥६७॥ (अव०) यद्यप्यौलूक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि तथापि श्रीधरमतापेक्षपाऽत्रोभे एव निगदिते । चः पुनरर्थे । अमीषां वैशेषिकाणां प्रमाणं द्विधाप्रत्यक्षमेकम् लैङ्गिकमनुमानं द्वितीयम् । एवमिति प्रकारवचनम् । यद्यपि प्रमातृफलाद्यपेक्षया बहु वक्तव्यं तथाप्येवममुना पूर्वोक्तप्रकारेण वैशेषिकमतस्य सक्षेपः परिकीर्तितः कथितः ॥६७॥ षष्ठं दर्शनमाह जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥८॥ (सो०) जैमिनिमुनेरमी इति जैमिनीयाः, पुत्रपौत्राद्यर्थे तद्धित ईयप्रत्ययः । जैमिनिशिष्याश्चैके उत्तरमीमांसावादिनः, एके पूर्वमीमांसावादिनः । तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्तीः खेटयन्तोऽनिर्वाच्यतत्त्वे व्यवतिष्ठन्ते । यदाहुः अन्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः ।। नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः ॥ यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् । आस्ते न वीरधीरस्य भङ्गः सङ्गरकेलिषु ॥ एवं वादिप्रतिवादिनः समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्वद्वस्तुधीव्यवहारयोः ॥ उपपादयितुं तैस्तैर्मतैरशकनीययोः । अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः ॥ • ६८.

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146