Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 3
________________ सप्तोपधानम||च विधाय विंशत्सु दिनेषु (अष्टादशदिनेष वा) १२॥ सार्घद्वादशतपोपवासतपःपूर्तिः समनुष्टीयते । अपि चेदेकाशनदिवसे पर्वदिनपातोप्रास्ताविक भवेत्ताई आयंबिलं नीवि वा तत्राचरन्ति । निवेदनम् एतेषां सप्तोपधानाना सकृदेव बहने समयाधिक्यं सुतरामावश्यकम् । तत्र विविधसांसारिक-व्यावहारिक-प्रवृत्तिवतां गृहस्थानामेतावकालावधि गृह-व्यवहारादिचिन्तां परित्यज्यैकस्थानावस्थानं नितरामशक्यकोटिकमिति हेतोरेतेषामुपधानतपसां त्रिविधतया विभाजन समुचित क्रमप्राप्तं चेति विभाव्यते। आचारानुगुणं २०।२०१४।६।१ एनां परिपाटीमनुसृत्य प्रथमोपधानं तप (५१) एकपश्वाश हिनमितं भवति । अनन्तरं द्वितीय (३५) पञ्चत्रिंश दिनमितं भवति । ततश्च तृतीयं (२८) अष्टाविंशतिदिनमितं उपधानतप अनुतिष्ठेत् । एतया प्रणाल्या वारत्रयमुपधानबहून कृत्वा सप्तोपधानस्य पूर्ति कुर्यात् ।। | एतस्मिन् ग्रन्थे तु उपधान विधेः सङ्कलनं तावत् विशेषतो निनोक्तान्प्रथान् पर्यालोच्य कृतं वरीवर्ति-महानिशीथसूत्रम्, विधिप्रपा आचारदिनकरः, सामाचारीशतकमित्याद्यन्येऽपि प्राच्यग्रन्था आमूलचूलं सम्यक्तया समालोचिताः । साम्प्रतकालीनाश्चोपधानविषयका अन्या अपि यथायोग्यसमुचितस्थलेषु विना सङ्कोचमुपयुक्ता एव । ग्रन्थस्यास्य संकलनं तु विक्रमसंवत् १९९० तमे संवत्सरे नागपूर (सी. पी.|| एतत्स्थलीयचातुर्मासावसर एवं कृतमासीत् , किश्च तत्प्रकाशनं साम्प्रतं विधीयते । द्रव्यसहायका:-एतद्वन्धप्रकाशने परमपूज्य-१००८ श्रीउपाध्याय-मुनिश्री सुखसागरजी-महाराजवर्याणां सदुपदेशात् राजनांदगांव ( सी. पी ) निवासिभिः श्रेष्टिमेघराजजी-लूणियानां सुपुत्रैः सहृदयर्जिनशासननिरतैः श्रीकानमलजी लूणियामहानुभाबैरेतद्वन्धप्रकाशनस्य कृते द्रव्यसाहाय्यं विधाय ज्ञानवृद्धिलाभसाफल्यमाचरितमतस्ते नितान्तधन्यवादाही एव । 以今以令小学《中小**4443434K

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 78