Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
मङ्गलाचरणम् :
नयसामान्यलक्षणम् :
॥ नयरहस्यप्रकरणम् ॥
महोपाध्याय श्रीयशोविजयजी गणिवर
ऐन्द्रश्रेणिनतं नत्वा वीरं तत्त्वार्थदेशिनम् । परोपकृतये ब्रूमो रहस्यं नयगोचरम् ॥
Jain Education International
प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नयः ॥
पदकृत्यम् :
दुर्नयस्यापि अधिकृतांशाप्रतिक्षेपित्वात् तत्रातिव्याप्तिवारणाय 'प्रकृतवस्त्वंशग्राही' इति । एवं च 'तत्' पदेनं तद्-भिन्न प्रतिपन्थिधर्मोपस्थितेर्न दोषः । प्रकृतवस्त्वंशग्राहित्वमपि दुर्नये ऽतिव्याप्तमेवेति 'तदितरांशाप्रतिक्षेपी' इति । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशे अतिव्याप्तिवारणाय 'अध्यवसाय'पदम् । रूपादिग्राहिणि रसाद्यप्रतिक्षेपिणि अपायादिप्रत्यक्षप्रमाणे अतिव्याप्तिवारणाय 'विशेष'पदम् ।
भाष्यकृत्प्रतिपादित-नयलक्षणानि :
"नयाः प्रापकाः, साधकाः, निर्वर्तकाः, निर्भासकाः, उपलम्भकाः, व्यञ्जका इत्यनर्थान्तरम्" इति भाष्यम् । (१.३५)
अत्र प्रापकत्वं - प्रमाणप्रतिपन्नप्रतियोगिप्रतियोगिमद्भावापन्ननानाधर्मैकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् ।
निर्वर्तकत्वं अनिवर्तमाननिश्चितस्वाभिप्रायकत्वम् ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280