Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 236
________________ + महोपाध्यायश्रीकृत-नयविषयककृति:+ ‘सङ्गृहीतपिण्डीतार्थं सङ्ग्रहवचनं' इत्यागमः । अस्यार्थः सङ्गृहीतः = सामान्याभिमुखेन गृहीतः, पिण्डीत: - एकजातिमानीतः । यद्वा-सङ्गृहीतः अनुगमविषयीकृतः, पिण्डीतः निराकृतपराभिमतव्यतिरेकः । यद्वा-सङ्गृहीतः = सत्ताख्यमहासामान्यभावमापन्नोऽर्थोः यस्य तत्तथा सङ्ग्रहवचनं । अन्तः क्रोडीकृतसर्वविशेषस्य सामान्यस्यैव तेनाभ्युपगमात् । 'सद्' इत्येवं भणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनि बुद्धेरनुधावनात् । घटपटादीनां हि भावान्यत्वे खरविषाणप्रख्यत्वं तदनन्यत्वे च सामान्यैकपरिशेष एव न्याय्य इति । यन्महाभाष्यकृत् ૧૯૪ = कुम्भो भावान्नो जड़ तो भावो अहन्नहाभावो । एवं पड़ादओ वि भावाणन्नत्ति तम्मतं ॥ चूओ विणस्सइ च्चिय मूलाइगुणोत्ति तस्समूहो वा । . माओ वि एवं सव्वे न वणस्सइविसिठ्ठा ॥ विशे. २२०८-१० ॥ अत एव यत्र विशेषक्रिया न श्रूयते तत्रास्ति - भवतीत्यादिका प्रयुज्यते इति शाब्दिकाः । सत्तायाः सर्वपदार्थाव्यभिचारात् । यदेव च सर्वाव्यभिचाररूपं तदेव परमार्थिकं यच्च व्यभिचारि तत् प्रबुद्धवासनाविशेषनान्तरीयकोपस्थितिकमप्यपारमार्थिकम् ॥ एतन्नयमाश्रित्य चिदानन्दैकरससदद्वैतप्रतिपादकं वेदान्तदर्शनमुद्भूतम् ॥ व्यवहारनयनिरूपणम् : व्यवहरणं व्यवहारः । व्यवहरतीति वा व्यवहारः । विशेषतोऽवह्रियते-निराक्रियते सामान्यमनेनेति वा व्यवहारः । अयमुपचारबहुलो लोकव्यवहारपरः । ‘वच्चइ विणिच्छियत्थं, ववहारो सव्वदव्वेसु' (विशे. २१८३) इति सूत्रम् । व्यवहारः सर्वद्रव्येषु विचार्य विशेषानेव व्यवस्थापयतीति एतदर्थः । इत्थं ह्यसौ विचारयति ननु 'सदिति यदुच्यते तद् घट - पटादिविशेषेभ्यः किमन्यन्नाम ? वार्तामात्रप्रसिद्धं सामान्यमनुपलम्भान्नास्त्येव ।' Jain Education International अथवा 'वच्चइ' इत्यादेर्लोकव्यवहारो विनिश्चयतः तदर्थं व्रजति व्यवहार इत्यर्थः । तथा हिनिश्चयनयमतेन भ्रमरादेः पञ्चवर्णद्विगन्धपञ्चरसाष्टस्पर्शवत्त्वे सत्यपि तत्र कृष्णवर्णादौ जनपदस्य निश्चयो भवति, तमेवार्थं व्यवहारनयः स्थापयति न तु सम्मतमप्यन्यत्, तथैव लोकव्यवहारनिर्वहात् । न चैवं भ्रमरो न श्वेतः इत्याद्यध्यक्षशाब्दयोरतस्मिंस्तद्ग्राहकत्वेन लौकिकप्रामाण्यमपि न स्यादिति For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280