Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 243
________________ अनेकान्तव्यवस्था एवं सत्तवियप्पो वयणपहो होई अत्थपज्जाए । जपज्जा पुण सवियप्पो निव्वियप्पो य ॥ सन्म. १-४१॥ तत्र प्रथमो भड्गः सङ्ग्रहे सामान्यग्राहिणि । 'नास्ति' इत्ययं तु व्यवहारे विशेषग्राहिणि । ऋ जुसूत्रे तृतीयः । चतुर्थः सङ्ग्रहव्यवहारयोः । पञ्चमः सङ्ग्रहर्जुसूत्रयोः । षष्ठो व्यवहारर्जुसूत्रयोः । सप्तमः सङ्ग्रह-व्यवहारर्जुसुत्रेषु । इति विभागः । - व्यज्जनपर्याये – शब्दनये पुन: सविकल्पः प्रथमे पर्यायशब्दवाच्यता विकल्पसद्भावेऽप्यर्थस्यैक्यात् । द्वितीयतृतीययोर्निर्विकल्पश्च द्रव्यार्थात् सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात्तयोः । समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् । तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव समभिरूढैवम्भूतयोर्नास्त्येवेति द्वौ भड्गौ लभ्येते, लिड्ग-संज्ञाक्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः । प्रथमद्वितीयसंयोगे चतुर्थः तेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठसप्तमवचनमार्गा भवन्ति ॥ इति बुधहितहेतोर्दर्शिताः सप्तभङ्गाः जिनवचनसमुद्रोत्तुङ्गगङ्गातरङ्गाः । दलितकुनयवादं निर्विशेषं मया श्रीनयंविजयगुरुणां प्राप्य पूर्णप्रसादम् ॥ Jain Education International ૨૦૧ उपसंहार : तदेवं सप्तभङ्गीमङ्गीकुर्वाणमने कान्तात्मकमेव वस्तु नयप्रमाणात्मकचैतन्यगोचरः सदृशासदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैव घटादेरनुभूयमानत्वात् । ननु सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादनेकान्तप्रसक्तिरिति चेदत्र वदन्ति भयणा विहु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भणा नियमो वि होइ समयाविरोहेण ॥ सन्म. ३-२७ ॥ उ यथा भजना - अनेकान्तः भजते - सर्ववस्तुनि तदेतत्स्वभावतया ज्ञापयति । तथा भजनापि अनेकान्तोऽपि, भजनीया - अनेकान्तोऽप्यनेकान्त इतीष्टोऽस्माकमिति । नयप्रमाणापेक्षयैकान्तश्चेत्ये For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280