Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 274
________________ प्रस्तुतग्रन्थविषयसंलग्ना प्रमाणनयैर्निक्षेपनं निक्षेपः । स नामस्थापनादिभेदेन चतुर्विधः ॥ निक्षेपस्य व्युत्पत्तिः ॥ १. द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः । ૨૩૨ पेई २. शुद्धद्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः । ३. अशुद्धद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिकः । ४. सामान्यगुणादयोऽन्वयरूपेण द्रव्यं द्रव्यमिति व्यवस्थापयतीति अन्वयद्रव्यार्थिकः । ५. स्वद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति स्वद्रव्यादिग्राहकः । ६. परमद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति परमद्रव्यादिग्राहकः । ७. परमभावग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः ॥ द्रव्यार्थिकस्य व्युत्पत्तिः ॥ पर्यायोऽर्थः प्रयोजनमस्येति पर्यायार्थिकः । अनादिनित्यपर्याय एव अर्थः प्रयोजनमस्येति अनादिनित्यपर्यायार्थिकः । सादिनित्यपर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः । शुद्धपर्याय एवार्थः प्रयोजनमस्येति अशुद्धपर्यायार्थिकः ॥ अशुद्धपर्याय एवार्थः प्रयोजनमस्येति अशुद्धपर्यायार्थिकः पर्यायार्थिकस्य व्युत्पत्तिः ॥ नैकं गच्छतीति निगमः । निगमो विकल्पः । तत्र भवो नैगमः । अभेदरूपतया वस्तून् सङ्गृह्णातीति सङ्ग्रहः । सङ्ग्रहेण गृहीतार्थस्य भेदरूपतया वस्तु व्यवह्रियते इति व्यवहारः । ऋजु प्राञ्जलं सूत्रयतीति ऋजुसूत्रः । शब्दात् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्ध (शब्दः) शब्दनयः । परस्परेणाभिरूढः समभिरूढः शब्दभेदेऽप्यर्थभेदो नास्ति । इन्द्रः शक्रः पुरंदरः इत्यादयः समभिरूढः । एवं क्रियाप्रधानत्वेन भूयत इति एवम्भूतः । शुद्धाशुद्धनिश्चयौ द्रव्यार्थिकस्य भेदौ । अभेदानुपचरिततया वस्तु निश्रीयत इति निश्चयः । भेदोपचारतया वस्तु व्यवह्रियत इति व्यवहारः । गुणगुणिनोः संज्ञादिभेदात् भेदकः सद्भूतव्यवहारः । अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यवहारः । असद्भूतव्यवहार एव उपचारः । उपचारादप्युपचारो यः करोति स उपचरितासद्भूतव्यवहारः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280