________________
प्रस्तुतग्रन्थविषयसंलग्ना
प्रमाणनयैर्निक्षेपनं निक्षेपः । स नामस्थापनादिभेदेन चतुर्विधः ॥ निक्षेपस्य व्युत्पत्तिः ॥
१. द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः ।
૨૩૨ पेई
२. शुद्धद्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः ।
३. अशुद्धद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिकः ।
४. सामान्यगुणादयोऽन्वयरूपेण द्रव्यं द्रव्यमिति व्यवस्थापयतीति अन्वयद्रव्यार्थिकः ।
५. स्वद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति स्वद्रव्यादिग्राहकः ।
६. परमद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति परमद्रव्यादिग्राहकः ।
७. परमभावग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः ॥
द्रव्यार्थिकस्य व्युत्पत्तिः ॥
पर्यायोऽर्थः प्रयोजनमस्येति पर्यायार्थिकः । अनादिनित्यपर्याय एव अर्थः प्रयोजनमस्येति अनादिनित्यपर्यायार्थिकः ।
सादिनित्यपर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः ।
शुद्धपर्याय एवार्थः प्रयोजनमस्येति अशुद्धपर्यायार्थिकः ॥ अशुद्धपर्याय एवार्थः प्रयोजनमस्येति अशुद्धपर्यायार्थिकः पर्यायार्थिकस्य व्युत्पत्तिः ॥
नैकं गच्छतीति निगमः । निगमो विकल्पः । तत्र भवो नैगमः ।
अभेदरूपतया वस्तून् सङ्गृह्णातीति सङ्ग्रहः ।
सङ्ग्रहेण गृहीतार्थस्य भेदरूपतया वस्तु व्यवह्रियते इति व्यवहारः ।
ऋजु प्राञ्जलं सूत्रयतीति ऋजुसूत्रः ।
शब्दात् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्ध (शब्दः) शब्दनयः ।
परस्परेणाभिरूढः समभिरूढः शब्दभेदेऽप्यर्थभेदो नास्ति । इन्द्रः शक्रः पुरंदरः इत्यादयः समभिरूढः ।
एवं क्रियाप्रधानत्वेन भूयत इति एवम्भूतः । शुद्धाशुद्धनिश्चयौ द्रव्यार्थिकस्य भेदौ ।
अभेदानुपचरिततया वस्तु निश्रीयत इति निश्चयः ।
भेदोपचारतया वस्तु व्यवह्रियत इति व्यवहारः ।
गुणगुणिनोः संज्ञादिभेदात् भेदकः सद्भूतव्यवहारः ।
अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यवहारः । असद्भूतव्यवहार एव उपचारः ।
उपचारादप्युपचारो यः करोति स उपचरितासद्भूतव्यवहारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org