________________
* नयचक्रालापपद्धतिः
૨૩૧ सर्वथानेकप्रदेशत्वेऽपि तथा । तस्यार्थक्रियाकारित्वं स्वस्वभावशून्यताप्रसङ्गात् । शुद्धस्यैकान्तेन आत्मनो न कर्ममलकलकावलेपः स्यात्, सर्वथा निरञ्जनत्वात् । सर्वथाऽशुद्धैकान्तेऽपि तथात्मनो न कदाचिदपि शुद्धस्य भावः = प्रसङ्गः स्यात्, तन्मयत्वात् । उपचरितैकान्तपक्षेऽपि नात्मज्ञानं सम्भवति, नियमितपक्षत्वात् । तथात्मनोऽनुपचरितपक्षेऽपि परज्ञानादीनां विरोधः स्यात् । श्लोकः
नानास्वभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः ।
तच्च सापेक्षसिद्ध्यर्थं स्यान्नयमिश्रितं कुरू॥ स्वद्रव्यादिग्राहकेन अस्तिस्वभावः । परद्रव्यादिग्राहकेन नास्तिस्वभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकैन नित्यस्वभावः । केनचित् पर्यायाथिकेन अनित्यस्वभावः । भेदकल्पनानिरपेक्षेणैकस्वभावः । अन्वयद्रव्यार्थिकस्याप्यनेकस्वभावत्वम् । सद्भूतव्यवहारेण (भेदकल्पनासापेक्षेण गुणगुण्यादिभिः) भेदस्वभावः । परमभावग्राहकेण भव्याभव्य-पारिणामिकस्वभावः । शुद्धाशुद्धपरमभावग्राहकेण चेतनस्वभावो जीवस्य । असद्भूतव्यवहारेण कर्मनोकर्मणोपि चेतनस्वभावः । अचेतनस्वभावपरमभावग्राहकेण कर्मनोकर्मणो मूर्तस्वभावः । जीवस्याप्यसद्भूतव्यवहारेण मूर्तस्वभावः । परमभावग्राहकेण पुद्गलं विहायेतरेषाममूर्तस्वभावः । पुद्गलस्योपचारादपि नास्त्यमूर्तत्वम् । 'परमभावग्राहकेण कालपुद्गलाणूनामेकप्रदेशस्वभावत्वं भेदकल्पनानिरपेक्षेण । इतरेषां च भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम् । पुद्गलाणोरुपचरितः । नानाप्रदेशस्वभावानां च । कालाणोः स्निग्धरूक्षत्वाभावात् पुद्गलस्य । अणोरमूर्तत्वाभावे पुद्गलस्यैकविंशतितमो भावो न स्यात् परोक्षप्रमाणापेक्षया । असद्भूतव्यवहारेणाप्युपचारेणाप्यमूर्तत्वम्। शुद्धाशुद्धद्रव्याथिकेन विभावत्वम् । शुद्धद्रव्याथिकेन शुद्धस्वभावः । असद्भूतव्यवहारेण उपचरितस्वभावः । श्लोकः
द्रव्याणां तु यथा रूपं, तल्लोकेऽपि व्यवस्थितम् । तत्तज्ज्ञानेन सज्ज्ञातं, नयोऽपि हि तथाविधः ॥
॥ इति नययोजनिका ॥ • सकलवस्तुग्राहकं प्रमाणम् । प्रमीयते = परिच्छेद्यते वस्तुतत्त्वं यज्ज्ञानेन तत्प्रमाणम् । तद् द्वेधा - सविकल्पेतरभेदात् । सविकल्पं मानसं, तच्चतुर्विधं मतिश्रुतावधिमन:पर्याय-ज्ञानरूपम्। निर्विकल्पं तु मनोरहितं केवलज्ञानम् ॥ प्रमाणस्य व्युत्पत्तिः ।।
प्रमाणेन वस्तुसगृहीतार्थैकांशो नयः । श्रुतविशेषो वा ज्ञातुरभिप्रायो वा नयः । नानास्वभावेभ्यो व्यावृत्त्य एकस्मिन् स्वभावे वस्तु नयति प्राप्नोतीति वा नयः । स द्वेधा-सविकल्पनिर्विकल्पभेदात् ॥ नयस्य व्युत्पत्तिः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org