Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 272
________________ + प्रस्तुतग्रन्थविषयसंलग्ना धर्मापेक्षया स्वभावाः गुणा न भवन्ति । स्वद्रव्यादिचतुष्टयापेक्षया परस्परं गुणाः स्वभावाः भवन्ति । द्रव्याण्यपि भवन्ति । २३० स्वभावादन्यथाभवनं विभावः । केवलभावमशुद्धं तस्य विपरीतम् । (?) स्वभावस्यापि अन्यत्रोपचारादुपचरितस्वभावः । स द्वेधा - कर्मज - स्वाभाविकभेदात् । यथा जीवस्य मूर्तत्वम् अचेतनत्वं च । यथा सिद्धात्मनां परज्ञता परदर्शकत्वं च । एवमितरेषां द्रव्याणामुपचारो यथासम्भवो ज्ञेयः । विशेषस्वभावानां व्युत्पत्तिः । श्लोकः - दुर्नयैकान्तमाख्ढा भावा न स्वार्थिका हि ते । स्वार्थिकाश्च विपर्यस्ताः सकलं कानया यतः ॥ तत्कथम् ? सर्वथैकान्तेन सद्रूपस्य न नियतार्थव्यवस्था सङ्करादिदोषात् । तथा सद्रूपस्य सकलशून्यताप्रसङ्गात् । नित्यस्यैकरूपत्वादेकरूपस्यार्थक्रियाकारित्वाभावः । अर्थक्रियाकारित्वाभावे द्रव्यस्याभावः । अनित्यपक्षेऽपि निरन्वयत्वाद् अर्थक्रियाकारित्वाभावः । अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । एकस्वरूपस्यैकान्तेन विशेषाभाव:, सर्वथैकरूपत्वात्, विशेषाभावे सामान्यस्याप्य भावः । निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वाच्च विशेषास्तद्वदेव हि ॥ इति ज्ञेयाः । अनेकपक्षेऽपि तथा द्रव्याभावो निराधारत्वात् । आधाराधेयाभावाच्च भेदपक्षेऽपि विशेषस्वभावानां निराधारत्वादर्थक्रियाकारित्वाभावः, अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः । भव्यस्यैकान्तेन पारिणामिकत्वात् द्रव्यस्य द्रव्यान्तरत्वप्रसङ्गात्, सङ्करादिदोषसम्भवात् सड्कर-व्यतिकर-विरोध - वैयधिकरण्यानवस्थासंशयाप्रतिपत्तिः अभावश्चेति । सर्वथा भव्यस्यैकान्तेऽपि तथा, शून्यताप्रसङ्गात् स्वभावरूपस्यैकान्तेन संसाराभावः । विभावपक्षेऽपि मोक्षस्याभावः । सर्वथा चैतन्यमित्युक्ते सर्वेषां शुद्धज्ञानचैतन्यव्याप्तिः स्यात्, तथा सति ध्यानं ध्येयं ज्ञेयं ज्ञानं गुरुशिष्याद्यभावः । Jain Education International सर्वथाशब्दः सर्वप्रकारवाची अनेकान्तवाची वा, सर्वादिगणे पठनात् । सर्वशब्दः एवंविधश्चेत् तर्हि सिद्धं नः समीहितं । अथवा नियमवाची चेत् तर्हि सकलार्थानां तव प्रतीतिः कथं स्यात् ? नित्यमनित्यमेकमनेकं भेदोऽभेद (इति) कथं प्रतीतिः स्यात् ? नियमितपक्षत्वात् । तथा चैतन्यपक्षेऽपि सकलचैतन्योच्छेदः स्यात् । मूर्तस्यैकान्तेनात्मनो न मोक्षस्य व्याप्तिः स्यात् । सर्वथाऽमूर्तस्य तथात्मनः संसारविलोपः स्यात् । एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्व एव हानिः स्यात् । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280