Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 271
________________ * नयचक्रालापपद्धतिः श्लोकः - सूक्ष्म जिनोदितं तत्त्वं हेतुभिर्नैव हन्यते । __आज्ञासिद्धं तु तद्ग्राह्यं नान्यथावादिनो जिनाः ॥ प्रदेशस्य भावः प्रदेशत्वम् । क्षेत्रत्वम् अविभागि-पुद्गलपरमाणुनावष्टब्धत्वम् । चेतनस्य भावः चेतनत्वम् । चैतन्यमनुभवनम् । श्लोकः - चैतन्यमनुभूतिः स्यात् स क्रियात्यमेव च। क्रिया मनोवच:कायेष्वन्विता वर्तते ध्रुवम् ॥ अचेतनस्य भावोऽचेतनत्वम् । अचैतन्यमननुभवनम् । मूर्तस्य भावो मूर्तत्वम् । मूर्तत्वं रूपादिमत्त्वम् । (अमूर्तस्य भावो अमूर्तत्वम् । अमूर्तत्वं रूपादिरहितत्वम् ।) ॥ गुणानां व्युत्पत्तिस्वभावः ॥ विभावरूपतया याति = परिणमतीति पर्यायाः । पर्यायस्य व्युत्पत्तिः । स्वभावलाभाच्युतत्वाद् अस्तिस्वभावः । परस्वरूपेणाभावात् नास्तिस्वभावः । निजनिजनानापर्यायेषु तदेव इति द्रव्यस्योपलम्भान्नित्यस्वभावः तस्याप्यनेकपर्यायपरिणामित्वाद नित्यस्वभावः । स्वभावानामेकाधारात्वादेकस्वभावः । एकस्याप्यनेकस्वभावोपलम्भादनेकस्वभावः । गुणगुण्यादिसंज्ञादिभेदस्वभावाद् भेदस्वभावः । सञ्जा-सङ्ख्या-लक्षणप्रयोजनानि गुणगुण्याघेकस्वभावादभेदस्वभावः । भाविकाले परस्वरूपाकारभवनाद् भव्यस्वभावः । कालत्रयेऽपि परस्वरूपाकाराभवनादभव्यस्वभावः । उक्तं च - . अण्णोण्णं पविसंता दिता ओगासमन्नमण्णस्स । मेलंता वि य णिच्चं सगसगभावं न विजहंति ॥ पारिणामिकभावप्रधानत्वेन परमस्वभावः । सामान्यस्वभावानां व्युत्पत्तिः, प्रदेशादिगुणानां व्युत्पत्तिः, चेतनादिविशेषस्वभावानां च व्युत्पत्तिर्निगदिता । १. अन्योन्यं प्रविशन्तः ददन्तः अवकाशमन्योन्यस्य । मिलन्तोऽपि च नित्यं स्वक-स्वक-भावं न विजहन्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280