Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 269
________________ नयचक्रालापपद्धतिः (१) कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिको यथा संसारिजीवः सिद्धसदृक् शुद्धात्मा । (२) उत्पाद-व्यय-गौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः, यथा द्रव्यं नित्यम् । (३) भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिको, यथा निजगुणपर्यायस्वभावाद् द्रव्यमभिन्नम् । (४) कर्मोपाधिसापेक्ष अशुद्धद्रव्यार्थिको, यथा क्रोधादिकर्मजभाव आत्मा । (५) उत्पादव्ययसापेक्ष अशुद्धद्रव्यार्थिको, यथा एकस्मिन् समये द्रव्यं उत्पादव्ययध्रौव्यात्मकम्। (६) भेदकल्पनासापेक्ष अशुद्धद्रव्यार्थिको, यथा आत्मनो दर्शनज्ञानादयो गुणाः । (७) अन्वयद्रव्यार्थिको, यथा गुणपर्यायस्वभावं द्रव्यम् । (८) स्वद्रव्यादिग्राहको द्रव्यार्थिको यथा स्वद्रव्यादिचतुष्टयोपक्षया द्रव्यमस्ति । (९) परद्रव्यादिग्राहको द्रव्यार्थिको यथा परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति । (१०) परमभावग्राहको द्रव्यार्थिको यथा ज्ञानस्वरूप आत्मा । अनेकस्वभावानां मध्ये ज्ञानख्यः परमस्वभावो गृहीतः । ॥ इति द्रव्यार्थिकस्य दश भेदाः ॥ (१) अनादिनित्यपर्यायार्थिको यथा- पुद्गलपर्यायो नित्यो मेर्वादिः । (२) सादिनित्यपर्यायार्थिको यथा- सिद्धजीवपर्यायो नित्यः । (३) सत्तागौणत्वेन उत्पादव्ययग्राहकस्वभावो नित्यशुद्धपर्यायार्थिको यथा समयं समयं प्रति पर्यायविनाशिनः पर्यायाः । (४) सत्तासापेक्षस्वभावान्नित्याशुद्धपर्यायार्थिको यथा एकस्मिन् समये त्रयात्मकः पर्यायः । (५) 'कर्मोपाधिनिरपेक्षस्वभावो नित्यशुद्धपर्यायार्थिको यथा - सिद्धपर्यायसदृशाः शुद्धा: संसारिणां पर्यायाः । Jain Education International ૨૨૭ , For Personal & Private Use Only शु (६) कर्मोपाधिसापेक्षस्वभावोऽनित्यशुद्धपर्यायार्थिको यथा संसारिणां उत्पत्तिमरणे स्तः । ॥ इति पर्यायार्थिकस्य षड् भेदाः ॥ नैगमस्त्रैधा - भूतभाविवर्तमानकालभेदात् । अतीते वर्तमानारोपणं यत्र स भूतनैगमः । यथा अद्य दीपमालिकायां अमावास्यायां महावीरो मोक्षं गतः । भाविकाले वर्तमानारोपणं यत्र स भाविनैगमः । यथा अर्हन् सिद्ध एव । कर्तुमारब्धं इषन्निष्पन्नं अनिष्पन्नं वा वस्तु निष्पन्नवत् कथ्यते यत्र स वर्तमाननैगमः । यथाओदनं पच्यते । नैगमस्त्रेधा । सङ्ग्रहो द्विविधः । सामान्यसङ्ग्रहो यथा - सर्वाणि द्रव्याणि परस्परमविरोधीनि । www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280