Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 268
________________ * प्रस्तुतग्रन्थविषयसंलग्ना विभावपर्यायाश्चतुर्विधाः नरनारकादिपर्यायाः । अथवा चतुरशीतिलक्षाश्च विभावद्रव्यव्यञ्जनपर्यायाः । नरनारकादिजीवा विभावगुणव्यञ्जानपर्यायाः । मत्यादयः स्वभावद्रव्यव्यञ्जनपर्यायाः । चरमशरीरात् किञ्चिन्न्यूनाः सिद्धपर्यायाः स्वभावगुणव्यञ्जनपर्यायाः अनन्तचतुष्टयस्वरूपाः जीवस्य । पुद्गलस्य तु द्यणुकादयो विभावद्रव्य-व्यञ्जनपर्यायाः । रस-रसान्तरगन्धगन्धान्तरादिविभावगुणव्यञ्जनपर्यायाः । वर्ण-गन्धरसैकैकाविरुद्धस्पर्शद्वयं स्वभावगणव्यञ्जनपर्यायाः । अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम्। उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥ एवं पर्यायाधिकारः ॥ गुणपर्यायवद् द्रव्यम् । स्वभावाः कथ्यन्ते । अस्तिस्वभावः, नास्तिस्वभावः, नित्यस्वभावः, अनित्यस्वभावः, एकस्वभावः, अनेकस्वभावः, भेदस्वभावः, अभेदस्वभावः, भव्यस्वभावः, अभव्यस्वभावः, परमस्वभावः । ॥ इति द्रव्याणामेकादश सामान्यस्वभावाः ॥ .. चेतनस्वभावः, अचेतनस्वभावः, मूर्तस्वभावः, अमूर्तस्वभावः, एकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः, विभावस्वभावः, शुद्धस्वभावः, अशुद्धस्वभावः, उपचरितस्वभावः । एते द्रव्याणां दश विशेषस्वभावाः ।। जीवपुद्गलयोरेकविंशतिस्वभावाः । चेतनस्वभावः, मूर्तस्वभावः, विभावस्वभावः, अशुद्धस्वभावः, एकप्रदेशस्वभावः, एतैविना धर्मादित्रयाणां षोडश । तत्र बहुप्रदेशं विना कालस्य पञ्चदश स्वभावाः । एकविंशतिभावाः स्युः जीवपुद्गलयोर्मताः । धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥ __ ते कुतो ज्ञेयाः ? प्रमाणनयविवक्षात् । सम्यग्ज्ञानं प्रमाणम् । तद् द्वेधा प्रत्यक्षतरभेदात् । अवधिमनःपर्ययौ एकदेशप्रत्यक्षौ । केवलं सकलप्रत्यक्षम् । मतिश्रुते परोक्षप्रमाणमुक्तम् ।। तदवयवाः नयाः । नयभेदाः उच्यन्ते । गाहाः - णिच्छय-ववहार-नया मूल-भेया णयाण सव्वाणं । णिच्छयसाहणहेऊ दव्वयपज्जत्थिया मुणह ॥१॥ द्रव्यार्थिकः, पर्यायार्थिकः, नैगमः, सङ्ग्रहः, व्यवहारः, ऋजुसूत्रः, शब्दः, समभिरूढः, एवम्भूत इति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते । नयानां समीपे उपनयाः । सद्भूतव्यवहारः, असद्भूतव्यवहारः उपचरितासद्भूतव्यवहार इति उपनया: त्रेधा । इदानीमेतेषां भेदा उच्यन्ते । १. निश्चयव्यवहारनयौ मूलभेदौ नयानां सर्वेषाम् । निश्चयसाधनहेतवः द्रव्यकपर्यायार्थिकाः जानीथ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280