Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
है नयचक्रालापपद्धतिः । ___गुणगुणिनोः, पर्यायपर्यायिनोः स्वभावस्वभाविनोः कारक-कारकिनोः भेदः सद्भूतव्यवहारस्यार्थः ।
द्रव्ये द्रव्योपचार: (१) गुणे गुणोपचारः (२) पर्याये पर्यायोपचारः, (३) द्रव्ये गुणोपचारः, (४) द्रव्ये पर्यायोपचारः, (५) गुणे द्रव्योपचारः, (६) गुणे पर्यायोपचारः, (७) पर्याये द्रव्योपचारः, (८) पर्याये गुणोपचारः (९) इति नवविध: असद्भूतव्यवहारस्यार्थः द्रष्टव्यः ।
उपचार: पृथड्नयो नास्ति इति न पृथक् कृतः । मुख्याभावे सति प्रयोजननिमित्ते चोपचारः प्रवर्तते । सोऽपि सम्बन्धोऽविनाभावः, संश्लेषः सम्बन्धः, परिणामपरिणामिसम्बन्धः, श्रद्धाश्रद्धेयसम्बन्धः, ज्ञानज्ञेयसम्बन्धः, चारित्रचर्यासम्बन्धश्चेत्यादि ।
सत्यार्थः, असत्यार्थः, सत्यासत्यार्थश्चेत्युपचरितासद्भूतव्यवहारः ।
नयस्यार्थः पुनरपि । अध्यात्मभाषया नया उच्यन्ते । (तत्र) तावन्मूलनयो द्वेधा-निश्चयो व्यवहारश्च । तत्र निश्चयोऽभेदविषयः व्यवहारो भेदविषयः । तत्र निश्चयो द्विविधः शुद्धनिश्चयोऽशुद्धनिश्चयश्च । तत्र निरूपाधिकगुणगुण्यभेदविषयः शुद्धनिश्चयः, तथा केवलज्ञानादयो जीवा इति । सोपाधिकगुणगुणिनः अभेदविषयोऽशुद्धनिश्चयः, यथा मतिज्ञानादयो जीवा इति ।
व्यवहारोऽपि द्विविधः-सद्भूतव्यवहारोऽसद्भूतव्यवहारश्च । तत्रैकवस्तुविषयः सद्भूतव्यवहारः । भिन्नवस्तुविषयोऽसद्भूतव्यवहारः । तत्र सद्भूतव्यवहारो द्विविधः । उपचरितानुपचरितभेदात् । तत्र सोपाधिकगुणगुणिभेदविषयः उपचरितसद्भूतव्यवहारः । यथा जीवस्य मतिज्ञानादयो गुणाः । निरुपाधिगुणगुणिभेदविषयः अनुपचरितसद्भूतव्यवहारो यथा जीवस्य केवलज्ञानादयो गुणाः । असद्भूतव्यवहारो द्विविधः उपचरितानुपचरितभेदात् । तत्र संश्लेषरहितवस्तुसम्बन्धविषयः उपचरितासद्भूतव्यवहारो, यथा देवदत्तस्य धनमिति । संश्लेषसहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारः, यथा जीवस्य शरीरमिति भावार्थः । . ॥ इति सुखबोधार्थमालापपद्धतिर्देवसेनपण्डितविरचिता परिसमाप्ता ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280