Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
॥नयोपदेशः॥ महोपाध्यायश्रीयशोविजयजीगणिवर
ऐन्द्रधाम हदि स्मृत्वा नत्वा गुस्पदांबुजम् ।
नयोपदेशः सुधियां विनोदाय विधीयते ॥१॥ स्मृत्वा श्रीशारदामत्र श्रीभावप्रभसूरिभिः । स्मृत्यर्थं लिख्यते कश्चित्पर्यायो ह्यस्य वृत्तितः ॥ इति । इन्द्र आत्मा तस्य संबंधि ऐन्द्रं धाम तेजः । 'ऐं' इति वाग्बीजमपि स्मृतम् ॥१॥
सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः ।
न विवेचयितुं शक्यं विनापेक्षं हि मिश्रितम् ॥२॥ सत्त्वासत्त्वनित्यानित्यभेदाभेदादयो ये तैरुपेता येऽर्था जीवपुद्गलादयस्तेषु अपेक्षावचनं प्रतिनियतधर्मप्रकारकापेक्षाख्यशाब्दबोधजनकं वचनं नयवाक्यमित्यर्थः । इदं वचनरूपस्य नयस्य लक्षणं हि-निश्चितं मिश्रितं = नानाधर्मैः करंबितं वस्तु अपेक्षां विना विवेचयितुं न शक्यम् ॥२॥
यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः ।
तथापि स्पष्टबोध: स्यात् सापेक्षो दीर्घतादिवत् ॥३॥ वस्तु घटादिकं आदीयतेऽनेनेत्यादि ज्ञानं दीर्घताया आदि ज्ञानं दीर्घताप्रत्यक्षवदित्यर्थः ॥३॥
नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया।
कोट्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् ॥४॥ बौद्धोपनिषदादिदर्शनो नानानयमयः कोट्यन्तरस्येतरनयार्थस्य निषेधो निराकरणं । कथंभूतो निषेधः ? प्रस्तुता या उत्कृष्टकोटिस्तत्कृत्, प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थः ॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280