SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥नयोपदेशः॥ महोपाध्यायश्रीयशोविजयजीगणिवर ऐन्द्रधाम हदि स्मृत्वा नत्वा गुस्पदांबुजम् । नयोपदेशः सुधियां विनोदाय विधीयते ॥१॥ स्मृत्वा श्रीशारदामत्र श्रीभावप्रभसूरिभिः । स्मृत्यर्थं लिख्यते कश्चित्पर्यायो ह्यस्य वृत्तितः ॥ इति । इन्द्र आत्मा तस्य संबंधि ऐन्द्रं धाम तेजः । 'ऐं' इति वाग्बीजमपि स्मृतम् ॥१॥ सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः । न विवेचयितुं शक्यं विनापेक्षं हि मिश्रितम् ॥२॥ सत्त्वासत्त्वनित्यानित्यभेदाभेदादयो ये तैरुपेता येऽर्था जीवपुद्गलादयस्तेषु अपेक्षावचनं प्रतिनियतधर्मप्रकारकापेक्षाख्यशाब्दबोधजनकं वचनं नयवाक्यमित्यर्थः । इदं वचनरूपस्य नयस्य लक्षणं हि-निश्चितं मिश्रितं = नानाधर्मैः करंबितं वस्तु अपेक्षां विना विवेचयितुं न शक्यम् ॥२॥ यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः । तथापि स्पष्टबोध: स्यात् सापेक्षो दीर्घतादिवत् ॥३॥ वस्तु घटादिकं आदीयतेऽनेनेत्यादि ज्ञानं दीर्घताया आदि ज्ञानं दीर्घताप्रत्यक्षवदित्यर्थः ॥३॥ नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया। कोट्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् ॥४॥ बौद्धोपनिषदादिदर्शनो नानानयमयः कोट्यन्तरस्येतरनयार्थस्य निषेधो निराकरणं । कथंभूतो निषेधः ? प्रस्तुता या उत्कृष्टकोटिस्तत्कृत्, प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थः ॥४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy