SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ * अनेकान्तव्यवस्था है अनेकान्तं वादं यदि सकलनिर्वाहकुशलं मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा । तदा किं नो भावो बहुलकलिकौतुहलवशात् घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥३॥ मिथो द्राग् युध्यन्ते महिषसदृशा ये परनयाः प्रयातारः खेदं त इह बहुधा जर्जरतराः ।। अनेकान्तो दृष्टा पुनरवनिपालः प्रकृतितः । परावृतिं नैभ्यो व्रजति परिपूर्णाभिलषितः ॥४॥ न यन्नाम ब्रूते समयविगमह्रीपरवशाः हृदा तु न स्नेहं न त्यजति विपुलं यद्गुणकृतम्। अनेकान्तस्याग्रे कलितविनया मौनरचनादिदानीं सजाता ननु नववधूर्वादिपरिषत् ॥५॥ क्रियायां ज्ञाने च व्यवहतिविधौ निश्चयपदेपवादे चोत्सर्गे कलितमिलितापेक्षणमुखैः । हतैकान्तध्वान्तं तममिदमनेकान्तमहसा पवित्रं जैनेन्द्र जयति सितवस्त्रैर्यतिवृषैः ॥६॥ इमं ग्रन्थं कृत्वा विषयविषविक्षेपकलुषं फलं नान्यद् याचे किमपि भवभूतिप्रकृतिकम् । इहामुत्रापि स्तान्मम मतिरनेकान्तविषये ध्रुवेत्येतद् याचे तदिदमनुयाचध्वमपरे ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy