________________
२०
महोपाध्यायश्रीकृत-नयविषयककृतिः
वमसौ ज्ञापनीयः । तथा हि- नित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेन वोभयात्मकत्वं । तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकतापर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । ___ न चैवमव्यापकोऽनेकान्तवादः, 'स्यात्' पदसंसूचितानेकान्तगर्भस्यैवेकान्तस्वभावत्वात्, अनेकान्तस्यापि 'स्यात्'कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् । ततः सर्वमनेकान्तात्मकं, अन्यथा प्रतिनियतरूपतानुपपत्तेरिति व्यवस्थितम् ।
अनेकान्तव्यवस्थिति श्रद्धैव भावतः सम्यक्त्वं तद्विकलानामुत्कृष्टचारित्रानुष्ठानस्यापि तथाविधफलाभावात् । तदुक्तं वादिगजकेसरिणा श्रीसिद्धसेनदिवाकरेण -
चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा ।
चरणकरणस्स सारं णिच्छयसुद्धं न याणंति ॥ सन्म.॥ चरणकरणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमयपरसमयमुक्तव्यापाराः-'अयं स्वसमयोऽनेकान्तवस्तुस्वरूपप्ररूपणाद्, अयं च परसमयः केवलनयाभिप्रायप्रतिपादनात्' इत्यस्मिन् परिज्ञानेऽनादृताः । अनेकान्तात्मक-वस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत् । चरण-करणयोः सारं फलं । निश्चयशुद्धं-निश्चयश्च तच्छुद्धं च । ज्ञानदर्शनोपयोगात्मकं निष्कलंकं न जानन्ति नानुभवन्ति । ज्ञानदर्शनचारित्रात्मककारणप्रभवत्वात् तस्य, कारणाभावे च कार्यस्यासंभवात्, अन्यथा तस्य निर्हेतुकत्वापत्तेः । चरणकरणयोश्च चारित्रात्मकत्वात् द्रव्यपर्यायात्मकजीवादितत्त्वाविगमस्वभावरुच्यभावेऽभावात् । इति मोक्षार्थिभिः पुरुषसिंहैरनेकान्ततत्त्वपरिज्ञानाय महानुद्यमो विधेयः॥ अनेकान्त-प्रशस्ति :
विना यं लोकानामपि न घटते संव्यवहतिः । समर्था नैवार्थानधिगमयितुं शब्दरचना । वितण्डा चाण्डाली स्पृशति च विवादव्यसनिनं । नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥१॥ कथायां लुप्यन्ते वियति बत तारा इव रवौ । नयाः सर्वे दीप्ता अपि समुदिते यत्र सहसा । उदासीने त्वब्धाविव जलतरङ्गा बहुविधाः । समन्ताल्लीयन्ते श्रयत तमनेकान्तमनिशम् ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org