________________
अनेकान्तव्यवस्था
एवं सत्तवियप्पो वयणपहो होई अत्थपज्जाए ।
जपज्जा पुण सवियप्पो निव्वियप्पो य ॥ सन्म. १-४१॥
तत्र प्रथमो भड्गः सङ्ग्रहे सामान्यग्राहिणि ।
'नास्ति' इत्ययं तु व्यवहारे विशेषग्राहिणि ।
ऋ जुसूत्रे तृतीयः ।
चतुर्थः सङ्ग्रहव्यवहारयोः ।
पञ्चमः सङ्ग्रहर्जुसूत्रयोः ।
षष्ठो व्यवहारर्जुसूत्रयोः ।
सप्तमः सङ्ग्रह-व्यवहारर्जुसुत्रेषु । इति विभागः ।
-
व्यज्जनपर्याये – शब्दनये पुन: सविकल्पः प्रथमे पर्यायशब्दवाच्यता विकल्पसद्भावेऽप्यर्थस्यैक्यात् । द्वितीयतृतीययोर्निर्विकल्पश्च द्रव्यार्थात् सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात्तयोः । समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् । तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव समभिरूढैवम्भूतयोर्नास्त्येवेति द्वौ भड्गौ लभ्येते, लिड्ग-संज्ञाक्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः । प्रथमद्वितीयसंयोगे चतुर्थः तेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठसप्तमवचनमार्गा भवन्ति ॥
इति बुधहितहेतोर्दर्शिताः सप्तभङ्गाः जिनवचनसमुद्रोत्तुङ्गगङ्गातरङ्गाः ।
दलितकुनयवादं निर्विशेषं मया श्रीनयंविजयगुरुणां प्राप्य पूर्णप्रसादम् ॥
Jain Education International
૨૦૧
उपसंहार :
तदेवं सप्तभङ्गीमङ्गीकुर्वाणमने कान्तात्मकमेव वस्तु नयप्रमाणात्मकचैतन्यगोचरः सदृशासदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैव घटादेरनुभूयमानत्वात् । ननु सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादनेकान्तप्रसक्तिरिति चेदत्र वदन्ति
भयणा विहु भइयव्वा जह भयणा भयइ सव्वदव्वाइं ।
एवं भणा नियमो वि होइ समयाविरोहेण ॥ सन्म. ३-२७ ॥
उ
यथा भजना - अनेकान्तः भजते - सर्ववस्तुनि तदेतत्स्वभावतया ज्ञापयति । तथा भजनापि अनेकान्तोऽपि, भजनीया - अनेकान्तोऽप्यनेकान्त इतीष्टोऽस्माकमिति । नयप्रमाणापेक्षयैकान्तश्चेत्ये
For Personal & Private Use Only
www.jainelibrary.org