________________
२००
महोपाध्यायश्रीकृत-नयविषयककृति: * कृतस्य वाक्यार्थस्य प्रतीतेः । विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थस्य प्रतिपादका वक्ष्यमाणास्तु चत्वारो विकलादेशा इति केचित् सङ्गीरन्ते । ते चेमे -
(१) स्यादस्ति नास्ति च घट: इति प्रथमविकलादेशः । (२) स्यादस्त्यवक्तव्यश्च घटः इति द्वितीयः । (३) स्यान्नास्ति चावक्तव्यश्च घटः इति तृतीयः । (४) स्यादस्ति च नास्ति चावक्तव्यश्च घट: इति चतुर्थः ।
तत्र वस्तुनो देशो यदैकः सत्वे, अपरश्चासत्त्वे आदिश्यते तदा प्रथमो विकलादेशः । आद्ययोरपि भङ्गयोः स्वद्रव्यपरद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात् कोऽस्य विशेष इति चेत्, न, तत्रास्तित्वनास्तित्वावच्छेदकद्वारा विभागेऽपि अवयवद्वारा विभागाभावात्, अत्रं तु तद्द्वारा विभागेन विशेषात् । तद्द्वारा विभागकरण एव किं बीजमिति चेत् ? सावयवनिरवयवात्मकवस्तुनः तथाप्रतिपत्तिजनकसावयव-निरवयवत्वशबलैकस्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिग् ॥
एकस्य देशस्य सत्त्वेनापरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । देशेऽसत्वस्य देशे च युगपदुभययोविवक्षणे षष्ठः । देशेऽस्तित्वस्य, देशे नास्तित्वस्य, देशे च युगपदुभययोर्विविक्षायां सप्तमः ॥
एते च परस्पररूपापेक्षया सप्तभङ्ग्यात्मकाः प्रत्येकं स्वार्थं प्रतिपादयन्ति नान्यथेति प्रत्येक तत्समुदायो वा सप्तभङ्ग्यात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदायविदो वदन्ति ।
तत्र जिज्ञासितसप्तधर्मात्मकप्रतिपादकत्वपर्याप्त्याधिकरणमहावाक्यत्वरूपसप्तभड्गीत्वं समुदाय एव, निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत् प्रत्येकमपीति विवेकः ।
अत एव 'स्यात्'पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति । आद्यं सप्तभङ्ग्यात्मकमहावाक्यैकवाक्यतापन्नवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाकारिणि । इत्थं च 'स्यादस्ति' इत्यादि प्रमाणं, 'अस्त्येव' इत्यादि दुर्नयः, 'अस्ति' इत्यादिक: सुनयः न तु स व्यवहाराङ्गं । 'स्यादस्ति एव' इत्यादिस्तु दुर्नय एव व्यवहारकारणं स्वपरानुवृत्तव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारप्रवर्तकत्वादिति ग्रन्थकृतो विवेचयन्ति ।
अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पनेऽष्टमनवमविकल्पयोः कल्पनमपि किं न क्रियत इति चेन्न तत्परिकल्पननिमित्ताभावात् । इत्ययमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् । सप्तभङ्ग्यां नयावतार :
अत्रैवं नयविभागमुपदर्शयन्ति श्रीसिद्धसेनदिवाकरपादाः -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org