________________
*नयोपदेशः तेन सापेक्षभावेषु प्रतीत्यवचनं नयः ।
अभावाभावत्पत्वात् सापेक्षत्वं विधावपि ॥५॥ तेन हेतुना परस्परप्रतियोगिकेषु भावेषु विधौ अस्तित्वादिभावेऽपि अभावाभावरूपत्वानास्तित्वाद्यभावस्वरूपत्वात् ॥५॥
सप्तभंग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् ।
स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् ॥६॥ सप्तभंग्यात्मकं स्यादस्त्येव स्यान्नास्त्येवेत्यादिकं वाक्यं प्रमाणं । यतः पूर्णबोधकृत् स्यात्कारपदात् ॥६॥
यथा नैयायिकैरिष्टा चित्रे नैकैकस्पधीः ।
नयप्रमाणभेदेन सर्वत्रैव तथार्हतैः ॥७॥ आर्हतैः = जैनसूरिभिः ॥७॥
अयं न संशयः कोटेरैक्यान्न च समुच्चयः ।
न विभ्रमो यथार्हत्वादपूर्णत्वाच्च न प्रमा ॥८॥ अयं नयाख्यो बोध: कोटेः प्रकारस्यैक्यात् संशयो न ||८||
न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते ।
नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥९॥ ... स्वार्थे सत्याः परैर्नुन्ना असत्या निखिला नयाः ।
विदुषां तत्र नैकान्ता इति दृष्टं हि संमतौ ॥१०॥ स्वार्थे त्वविषये सत्या निश्चायकाः परैर्नयैर्नुन्ना अप्रामाण्यशंकाविषयीकृताः । असत्या अनिश्चायका निखिला नया नैगमादयो विदुषां नैकान्ता वक्तुं युक्ता इति दृष्टं परीक्षितं संमतिग्रन्थे ॥१०॥
बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः ।
उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् ॥११॥ ___ अत्र नयग्रन्थे उद्देश्यं यदभिनिविष्टेतरनयखंडनं तत्साधने तत्साधननिमित्तं बौद्धादिदृष्टयोऽपि बौद्धादिनयपरिग्रहा अपि वस्तुस्पर्शेन शुद्धपर्यायादिवस्तुप्राप्त्या नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org