SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ * महोपाध्यायश्रीकृत-नयविषयककृतिः अयं संक्षेपतो द्रव्यपर्यायार्थतया द्विधा । द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः पृथक् ॥१२॥ अयं सामान्यलक्षणलक्षितो नयो द्रव्यार्थिकः पर्यायार्थिकः ॥१२॥ तिर्यगूर्ध्वप्रचयिनः पर्यायाः खलु कल्पिताः । सत्यं तेष्वन्वयि द्रव्यं कुंडलादिषु हेमवत् ॥१३॥ .. तेषु पर्यायेषु द्रव्यं सत्यं, कल्पिता = वासनाविशेषप्रभवविकल्पसिद्धा अपारमार्थिका इति यावत् ।१३।। आदावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥१४॥ किंतु वितथैः शशविषाणादिभिः काल्पनिकत्वे सदृशाः सन्तोऽनादिलौकिकव्यवहारसवासनावशात् अवितथा इव लक्षिता लोकैरिति शेषः ॥१४॥ अयं द्रव्योपयोगः स्वाद्विकल्पेऽन्त्ये व्यवस्थितः। अन्तरा द्रव्यपर्यायधीः सामान्यविशेषवत् ॥१५॥ अयं द्रव्योपयोगो द्रव्यार्थिकनयजन्यो बोधोऽन्त्ये विकल्पे शुद्धसंग्रहाख्ये व्यवस्थितः पर्यायबुद्ध्याऽविचलितः स्यात्, अन्तरा शुद्धसंग्रहशुद्धर्जुसूत्रविषयमध्ये द्रव्यपर्यायधीरेव स्यात् सामान्यविशेषबुद्धिवत् ॥१५॥ पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति न पृथक् । यत्नैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ॥१६॥ पर्यायार्थमते द्रव्यं द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति यद्यस्मात्कारणात्तैः पर्यायैरर्थक्रिया जलाहरणादिरूपा दृष्टा नित्यमप्रच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु कुत्रोपयुज्यते ? न कुत्रचिदित्यर्थः ॥१६॥ यथा लूनपुनर्जातनखादावेकतामतिः । तथैव क्षणसादृश्याद् घटादौ द्रव्यगोचरा ॥१७॥ तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थिनो मताः । सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ॥१८॥ तार्किकाणां वादिसिद्धसेनमतानुसारिणामाद्याः त्रयो भेदाः नैगमसंग्रहव्यवहारलक्षणा द्रव्यार्थिका इति, सैद्धान्तिकानां तु जिनभद्रगणिक्षमाश्रमणवचनानुसारिणां चत्वार आद्या ऋ जुसूत्रसहिता द्रव्यार्थिका Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy