________________
*नयोपदेशः
इति । ऋजुसूत्रादयश्चत्वारः पर्यायार्थिका वादिनामिति, शब्दादयः त्रय एव च क्षमाश्रमणानामिति । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात्तदा उक्तं "उज्जुसुयस्स एगे अणुवउत्ते एगं दव्वावस्सयं पुहत्तेणं" इति सूत्रं विरुध्येतेति सैद्धान्तिकाः, तार्किकानुसारिणस्तु अतीतानागतपरकीयभेदपृथक्त्वपरित्यागादनुयोगद्वारसूत्रेणेत्यादि ज्ञेयम् ॥१८।।
नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रको । शब्दः समभिरूढाख्य एवंभूतश्च सप्त ते ॥१९॥ निगमेषु भवो बोधो नैगमस्तत्र कीर्तितः ।
तद्भवत्वं पुनर्लोकप्रसिद्धार्थोपगन्तृता ॥२०॥ निगमेषु लोकेषु भवो बोधो नैगमः तद्भवत्वं तदाश्रयेणोत्पत्तिकत्वं लोकप्रसिद्धार्थस्वीकर्तृत्वम् ॥२०॥
तत्प्रसिद्धिश्च सामान्यविशेषाधुभयाश्रया ।
तदन्यतरसंन्यासे व्यवहारो हि दुर्घटः ॥२१॥ लोकप्रसिद्धिः सामान्यविशेषाधुभययुता तेषां भेदानां मध्येऽन्यतरस्य संन्यासे परित्यागे ॥२१॥
संग्रहः संगृहीतस्य पिंडतस्य च निश्चयः। संगृहीतं परा जाति: पिंडितं त्वपरा स्मता ॥२२॥ एकद्वित्रिचतुःपंचषड्भेदा जीवगोचराः । भेदाभ्यामस्य सामान्यविशेषाभ्यामुदीरिताः ॥२३॥ उपचारा विशेषाश्च नैगमव्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते शुद्धार्थे पक्षपातिना ॥२४॥ उपचारेण बहुलो विस्तृतार्थश्च लौकिकः । यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः ॥२५॥ दह्यते गिरिरध्वासौ याति स्रवति कुंभिका।
इत्यादिस्पचारोऽस्मिन् बाहुल्येनोपलभ्यते ॥२६॥ गिरिस्थतृणदग्धत्वं, अध्वनि मार्गे गच्छन्नरे लक्षणा, कुंडीस्थजलादि ।।२६।।
विस्तृतार्थो विशेषस्य प्राधान्यादेष लौकिकः। पंचवर्णादि गादौ श्यामत्वादिविनिश्चयात् ॥२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org