SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २९४.48 * महोपाध्यायश्रीकृत-नयविषयककृति: * पंचवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् । न तद्बोधे विषयताऽपरांशे व्यावहारिकी ॥२८॥ अपरांशे कृष्णेतरवर्णाशे व्यावहारिकी विषयता नास्ति ॥२८॥ भावत्वे वर्तमानत्वव्याप्तिधीरविशेषिता । ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः ॥२९॥ इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः । क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते ॥३०॥ अनेन ऋजुसूत्रनयेन एकत्र धर्मिणि अवस्थान्तरसमागमो भिन्नावस्थावाचकपदार्थान्वयो नेष्यते न स्वीक्रियते, कुत ? क्रिया साध्यावस्था, अन्या च निष्ठा सिद्धावस्था तयोर्या भिदा भिन्नकालसंबन्धस्तदाधारस्यैकद्रव्यस्याभावात् ॥३०।। पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥३१॥ अत्रार्थेऽभियुक्तसंमतिमाह-पलालमिति-अत्र दहनादिक्रियाकाल एव तन्निष्ठाकाल इति दह्यमानादेर्दग्धत्वाद्यव्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात्पलालं न दहत्यग्निरित्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते । विधिमुखस्तु व्यवहारोऽत्रापलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यतीत्येवमाकार एव द्रष्टव्यः । अत एव "सो समणो पव्वईओ" इत्यादि क्रियमाणं कृतमेव, कृतं तु क्रियमाणत्वे भजनीयमिति सिद्धान्तः संगच्छते । तदाह भाष्यकार: - "तेणेह कज्जमाणं णियमेण कयं कयं तु भयणिज्ज । किंचिदिह कज्जमाणं उवरयकिरियं च होज्जाहि ॥१॥ इति" ॥३१॥ दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः । शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् ॥३२॥ शाटी दग्धेति कथं तदानीं शाटीदाहक्रियाकालसंवलितस्य तन्निष्ठाकालस्याभावादिति ? उत्तरं - शाट्येकदेशे दह्यमानेऽपि तत्र स्कन्धोपचारतः शाटीस्कन्धवाचकशाटीपदोपचाराच्छाटी दग्धेति वचनमेतन्नयाश्रयमृजुसूत्राभिप्रायकं ज्ञेयम् ॥३२॥ विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः । तरप्प्रत्ययनिर्देशाद्विशेषिततमेऽगतिः ॥३३॥ विशेषिततरः प्रत्युत्पन्नाश्रयः ऋजुसूत्राभिमतग्राही नयः शब्द इति । अत्र तरप्प्रत्ययात्तमप्प्रत्ययो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy