________________
* नयोपदेशः विशेषस्तेन समभिरूढ एवंभूते चागतिरतिव्याप्तिर्न ॥३३॥
ऋजुसूत्राद्विशेषोऽस्य भावमात्राभिमानतः ।
सप्तभंग्यर्पणाल्लिंगभेदादेवार्थभेदतः ॥३४॥ अस्य शब्दनयस्य ऋजुसूत्राद्विशेष उत्कर्षः भावमात्रस्याभिमानात् जलाहरणदिक्रियाक्षमं प्रसिद्धं भावघटमेवेच्छति ॥३४॥
सामानाधिकरण्यं चेन्न विकारापरार्थयोः ।
भिन्नलिंगवचःसंख्यास्पशब्देषु तत्कथम् ॥३५॥ विकाराविकारार्थकशब्दयोः पलालं दाह: भिन्नलिंगादिरूपाणि येषु; तादृशेषु शब्देषु कथं सामानाधिकरण्यं ? न कथंचिदित्यर्थः ॥३५॥
नयः समभिरुढोऽसौ यः सत्स्वर्थेष्वसंक्रमः ।
शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ॥३६॥ यः सत्स्वर्थेषु घटादिष्वसंक्रमो घटाद्यन्यशब्दवाच्यत्वं समभिरूढः ॥३६।।
तटस्तटं तटीत्यादौ शब्दभेदोऽर्थभिद्यदि । तद् घट: कुंभ इत्यादौ कथं नेत्यस्य मार्गणा ॥३७॥ संज्ञार्थतत्त्वं न ब्रूते त्वन्मते पारिभाषिकी।
अनादिसिद्धः शब्दार्थों नेच्छा तत्र निबन्धनम् ॥३८॥ पारिभाषिकी संज्ञा डित्थडवित्थादिका ॥३८॥
एवंभूतस्तु सर्वत्र व्यञ्जनार्थविशेषणः ।
राजचिन्हैर्यथा राजा नान्यथा राजशब्दभाक् ॥३९॥ व्यञ्जनं शब्दस्तेनार्थं विशेषयति स एवंभूतः ॥३९॥
सिद्धो न तन्मते जीवः प्रोक्तः सत्त्वादिसंड्यपि । महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः ॥४०॥ जीवोऽजीवश्च नोजीवो नोअजीव इतीहिते।
जीव: पंचस्वपि गतिष्विष्टो भावैर्हि पंचभिः ॥४१॥ जीवः, अजीवः, नोजीवः, नोअजीवः, एषां लक्षणानिऔदयिकक्षायिक-क्षायोपशमिकौपशमिकपारिणामिकलक्षणैः पंचभिर्लक्षितो जीवः ॥४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org