SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ૨૧૦ + महोपाध्याय श्रीकृत - नयविषयककृति: नञि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुद्गलप्रभृतिद्रव्यमजीव इति संज्ञितम् ॥४२॥ नञि सर्वत्र निषेधार्थेऽत्राजीव: पुद्गलादिकं द्रव्यम् ॥४२॥ जीव इति नोशब्दे जीवसर्वनिषेधके । देशप्रदेशौ जीवस्य तस्मिन् देशनिषेधके ॥४३॥ नोजीव इत्यत्र तु नोशब्दे देशनिषेधके जीवस्य देशप्रदेशौ अंगीकर्तव्यौ ॥४३॥ जीवो वा जीवदेशो वा प्रदेशो वाप्यजीवगः । अनयैव दिशा ज्ञेयो नोअजीवपदादपि ॥४४॥ नो अजीवो नोशब्दे देशनिषेधकेऽजीवदेशो वा अजीवः अजीवाश्रितः प्रदेशो वा इति । अत्र नञ् अभावार्थः नोशब्दस्य त्वभाव एकदेशो वा इत्यर्थः । पुनर्विपरीतोऽप्यर्थो नोजीवो नोशब्दे सर्वनिषेध विवक्षितेऽजीव एव कथ्यते तृतीयभंगे एवं नोअजीवपदाज्जीवो जीवपदार्थो वा बोध्य इति चतुर्थभंगे । अयं भावार्थ:-जीवः, अजीव: पुद्गलादिकं द्रव्यं, नोजीवोऽजीवो जीवस्य देशप्रदेशौ वा, नोअजीवो जीवो जीवदेश जीवप्रदेशो वा अजीवदेशो वा अजीवप्रदेशो वा इति ॥४४॥ नैगमो देशसंग्राही व्यवहारर्जुसूत्रकौ । शब्दः समभिढश्चेत्येवमेव प्रचक्षते ॥ ४५ ॥ उक्तं मतं कियन्तां नयानामाह देशसंग्राही ॥ ४५ ॥ भावमौदयिकं गृह्णन्नेवंभूतो भवस्थितम् । जीवं प्रवक्त्यजीवं तु सिद्धं वा पुद्गलादिकम् ॥४६॥ एवंभूतो भवस्थितं संसारिणं जीवं प्रवक्ति, सिद्धं पुद्गलादिकं चाजीवं प्रवति ॥४६॥ नोअजीवश्च नोजीवो न जीवाजीवयोः पृथक् । देशप्रदेशो नास्येष्टाविति विस्तृतमाकरे ॥ ४७ ॥ नोजीवो नोअजीवश्चैतन्नये एवंभूते जीवाजीवयोर्वक्तव्ययोः सतोर्न पार्थक्यमापद्यते, यतोऽस्य नयस्य देशप्रदेशौ नेष्टो इति नोशब्दः सर्वनिषेधार्थ एव घटत इत्येतदाकरेऽनुयोगद्वारादौ विस्तृतम् ॥४७॥ Jain Education International सिद्धो निश्चयतो जीव इत्युक्तं यद्दिगंबरैः । निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्रथा ॥४८॥ इत्येतेन पूर्वोक्तेन सिद्धो निश्चयतो जीव इति यद्दिगंबरैरुक्तं तन्निराकृतं यस्मादन्त्ये एवंभूतनयेऽन्यथा For Personal & Private Use Only www.jainelibrary.org
SR No.004070
Book TitleSaptabhangi Nayapradip
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year
Total Pages280
LanguageHindi, Gujarati, English
ClassificationBook_Devnagari
File Size6 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy