________________
नयोपदेशः
૨૧૧ प्रथा सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एवेति ॥४८॥
आत्मत्वमेव जीवत्वमित्ययं सर्वसंग्रहः ।
जीवत्वप्रतिभूः सिद्धेः साधारण्यं निरस्य न ॥४९॥ आत्मत्वमेव जीवत्वं निश्चयान्न साधारण्यम् ॥४९॥
यज्जीवत्वं क्वचिद्रव्यभावप्राणान्वयात् स्मृतम् ।
विचित्रनैगमाकूतं तज्ज्ञेयं न तु निश्चयात् ॥५०॥ एवं निश्चयतः सिद्धस्याजीवत्वं प्रोक्तं तर्हि कथं-'जीवा मुत्ता संसारिणो य' इत्यादि ? तदुपर्याहयज्जीवत्वं क्वचिद्ग्रन्थे द्रव्यप्राणानां भावप्राणानां चान्वयादेकीकरणात् स्मृतं संसारिसिद्धसाधारणमिति शेषः, तद्विचित्रो विविधावस्थो यो नैगमस्तस्याभिप्रायाज्ज्ञेयम् ॥५०॥
धात्वर्थे भावनिक्षेपात् परोक्तं न च युक्तिमत् ।
प्रसिद्धार्थोपरोधेन यन्नयान्तरमार्गणा ॥५१॥ धात्वर्थे जीवत्यर्थे भावप्राणारोपणात् परोक्तं निश्चयतः सिद्ध एव जीव इति दिगंबरोक्तं नैव युक्तिमत् ॥५१॥
शैलेश्यन्त्यक्षणे धर्मो यथा सिद्धस्तथाऽसुमान् ।
वाच्यं नेत्यपि यत्तत्र फले चिन्तेह धातुगा ॥५२॥ यथा शैलेशीचरमसमये निश्चयतो धर्मस्तस्मादग्व्यिवहारतो धर्मः, तथाऽसुमान् जीवोऽपि निश्चयतः सिद्ध एव भविष्यति इत्यपि न वाच्यं । यतो धारयति सिद्धिगतावात्मानमिति धर्म इति फले फैलरूपे धात्वर्थे चिन्ता ॥५२॥
उक्ता नयार्थास्तेषां ये शुद्ध्यशुद्धी वदेत् सुधीः ।
ते प्रदेशप्रस्थकयोर्वसतेश्च निदर्शनात् ॥५३॥ ये शुद्ध्यशुद्धी स्तः सुधी: पंडितस्ते शुद्ध्यशुद्धी वदेत् प्रदेशप्रस्थकवसतिदृष्टान्तैः ॥५३॥ तथाहि -
धर्माधर्माकाशजीवस्कन्धानां नैगमो नयः।
तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः ॥५४॥ नैगमो नयो धर्मास्तिकायादिस्कन्धानां तद्देशस्य प्रदेश इति षण्णां तं प्रदेशमुच्चकैः स्वमतनिर्बन्धेनाह ।।५४||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org