________________
+ महोपाध्याय श्रीकृत- नयविषयककृतिः
दासेन मे खरः क्रीतो दासो मम खरोऽपि मे । इति स्वदेशस्वाभेदात् पंचानामाह संग्रहः ॥ ५५ ॥
संग्रहनयस्तु स्वदेशे धर्मास्तिकायादिदेशे स्वाभेदाद्धर्मास्तिकायाद्यभेदात् पंचानां प्रदेशमाह यथा संग्रहस्यान्वर्थत्वं क्रयजन्यदासनिष्ठं खरस्वामित्वम् ॥५५॥
૨૧૨
व्यवहारस्तु पंचानां साधारण्यं न वित्तवत् । इति पंचविधो वाच्यः प्रदेश इति मन्यते ॥ ५६ ॥
व्यवहारनयस्तु इति मन्यते यथा पंचानां वित्ते द्रव्ये साधारणं स्वामित्वं तथा प्रदेशे न साधारणं पंचवृत्तित्वं पंचानां प्रदेश इति न वाच्यं, किं तु पंचविधः प्रदेश इति वाच्यम् ||५६||
पंचप्रकारः प्रत्येकं पंचविंशतिधा भवेत् ।
प्रत्येकवृत्तौ प्राक्पक्षः स्याद्देहेष्विव वाजिनाम् ॥५७॥
प्रत्येकवृत्तिः साकांक्षा बहुत्वेनेति सोऽप्यसन् ।
सूत्रस्ततो ब्रूते प्रदेशभजनीयताम् ॥५८॥
पंचप्रकार: पंचविधः प्रदेशः, यदि च गेहेषु शतमश्वा इत्यत्रेव प्रत्येकवृत्तित्वान्वयः प्रकृते स्वीक्रियते तदा प्राक् पक्षः पंचानां प्रदेश इति संग्रहनयपक्ष एव परिष्कृतः ||५८||
Jain Education International
भजनाया विकल्पत्वाद्व्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः ॥ ५९॥
व्यवहारनयः प्राह-धर्मे धर्मास्तिकाये यः प्रदेशः स धर्मे धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः, एवमधर्मास्तिकाय आकाशास्तिकायश्च ज्ञेयौ ॥५९॥
जीवे स्कन्धेऽप्यनन्ते नोशब्दाद्देशावधारणम् । इति शब्दनयः प्राह समासद्वयशुद्धिमान् ॥६०॥
अपिश्चार्थः, जीवे स्कन्धे च अनन्ते नोशब्दाद्देशावधारणं कर्तव्यं, जीवे जीव इति वा नोजीव: स्कन्ध इति वा प्रदेशो नोस्कन्ध इति ॥ ६० ॥
ब्रूते समभिस्तु भेदाप्तेरत्र सप्तमीम् । देशप्रदेशनिर्मुक्तमेवंभूतस्य वस्तु सत् ॥६१॥
समभिरूढनयस्तु धर्मे प्रदेश इत्यादि सप्तमीसमासं ब्रूते । अत्र कुंडे जलवद्भेदे सप्तमी, घटे घटस्वरूपं इत्यादौ क्वचिदभेदे सप्तमी । एवंभूतनयस्य मते देशप्रदेशनिर्मुक्तं देशप्रदेशकल्पनारहितमखंडमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्यर्थः ॥ ६१॥
For Personal & Private Use Only
www.jainelibrary.org