Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
नयोपदेशः
૨૧૩
प्रस्थकार्थं व्रजामीति वने गच्छन् ब्रवीति यत् । आदिमो ह्युपचारोऽसौ नैगमव्यवहारयोः ॥६२॥ अत्र प्रस्थकशब्देन क्रियाविष्टवनैकधीः। प्रस्थकेऽहं व्रजामीति [पचारोऽपि च स्फुटः ॥६३॥ छिनभि प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनूपचाराः शुद्धताभृतः ॥६४॥ तमेतावतिशुद्धौ तूत्कीर्णनामानमाहतुः ।
चितं मितं तथा मेयारूढमेवाह संग्रहः ॥६५॥ एतावति शुद्धौ नैगमव्यवहारनयौ तं प्रस्थकं प्रस्थकपर्यायवन्तमाहतुः । संग्रहनयस्तु चितमासादितप्रस्थकपर्यायं मितमाकुहितनामानं मेयं धान्यविशेषमारूढं च प्रस्थकमाह ॥६५॥
प्रस्थकश्चर्जुसूत्रस्य मानं मेयमिति द्वयम् ।
न कर्तृगताद् भावाच्छाब्दानां सोऽतिरिच्यते ॥६६॥ ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव तत्परिच्छेदासंभवान्मेयारूढप्रस्थकः प्रस्थकत्वेन व्यपदिश्यत इति । शब्दानां शब्दसमभिरूद्वैवंभूतानां त्रयाणां नयानां मते स प्रस्थको ज्ञकर्तृगताद्भावान्नातिरिच्यते न भिद्यते, ज्ञः कर्ता च ज्ञकर्तारौ, ज्ञकत्रोर्गतो ज्ञकर्तृगतस्तस्मादिति समास, प्रस्थकाकारज्ञगतात्प्रस्थककर्तृगताद्वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं न सहते इति प्रस्थकदृष्टान्तः ॥६६।।
लोके च तिर्यग्लोके च जंबूद्वीपे च भारते।
क्षेत्रे तद्दक्षिणार्द्धं च पाटलीपुत्रपत्तने ॥६७॥ अथ वसतिदृष्टान्तः-कुत्र भवान् वसतीति पृष्टे ॥६७||
गृहे च वसतिः कोणे नैगमव्यवहारयोः । अतिशुद्धौ तु निवसन् वसतीत्याहतुः स्म तौ ॥१८॥ तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता ।
वसत्यद्य न सोऽत्रेति व्यवहारौचिती ततः ॥६९॥ तदर्थो वसन् वसतीत्यस्यार्थः, तत्र पाटलीपुरे तस्य देवदत्तस्य वर्तमानकालावच्छिन्न-वृत्तितालक्षणयार्थः कर्तव्यः पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्तेऽद्य सोऽत्र न वसतीति व्यवहारस्यौचित्यं ॥६९|| .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280