Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 260
________________ महोपाध्याय श्रीकृत - नयविषयककृतिः परिणामितया द्रव्यं भावे संबद्धं, नाम च वाचकत्वेन वाच्यवाचकभावेन संबद्धं चेत्, अदो नियामकं नामेन्द्रगोपालदारके दुर्वचम् ॥९६॥ ૨૧૮ परिणामित्वभिन्नश्चेन्नामनिक्षेपलक्षकः । संबन्ध इष्टः साम्यादिभिन्नः किं न तथेष्यते ॥९७॥ नामनिक्षेपलक्षणः परिणामित्वभिन्न एव द्रष्टव्यस्तदा स्थापनाया अपि साम्यादिभिन्नः संबन्धः ॥९७॥ अतिप्रसंगो नैवं चाभिप्रायाकारयोगतः । यच्छ्रुतोक्तमनुल्लंघ्य स्थापना नाम चान्यतः ॥९८॥ एवमुक्तासंकरप्रकारेण चातिप्रसंगो न भवति यच्छुतोक्तं सिद्धान्तवचनमनुल्लंघ्याक्षादौ एवाभिप्रायसंबन्धं प्रतिमादौ चाकारसंबन्धं पुरस्कृत्य स्थापनाद्रियतेऽन्यतोऽन्यस्थले च नामनिक्षेप इति ॥९८॥ अत एव न धीरर्हत्प्रतिमायामिवार्हतः । भावसाधोः स्थापना या द्रव्यलिंगिनि कीर्तिता ॥ ९९ ॥ अत एवार्हत्प्रतिमायामर्हतो धीरिव द्रव्यलिंगिनि प्रकटप्रतिषेविणि पार्श्वस्थादौ स्थापना भावसाधोर्धीः सिद्धान्ते न कीर्तिता ॥९९॥ साह स्थाप्या स्मृतिद्वारा भावादरविधायिनी । न चोत्कटतरे दोषे स्थाप्यस्थापकभावना ॥१००॥ सा स्थापनाधीः ॥१००॥ Jain Education International यद्वा प्रतिष्ठाविधिना स्वात्मन्येव परात्मनः । स्थापना स्यात् समापत्तिर्बिंबे सा चोपचारत: ॥१०१॥ यद्वा पक्षान्तरे प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनः परमत्रिभुवनभर्तुर्ध्यानरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सा प्रतिष्ठा, बिंबे चोपचारतः ॥ १०१ ॥ प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः । आहार्यारोपतः स्याच्च द्रष्टृणामपि धर्मभूः ॥१०२॥ स्थापना प्रतिष्ठितप्रतिज्ञया समापन्नो यः परमात्मा भगवांस्तस्याहार्यारोपतो द्रष्टृणामुपलक्षणाद्वन्दकानां पूजकानां धर्मभूर्धर्मकारणं भवति ॥ १०२॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280