Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 251
________________ * नयोपदेशः विशेषस्तेन समभिरूढ एवंभूते चागतिरतिव्याप्तिर्न ॥३३॥ ऋजुसूत्राद्विशेषोऽस्य भावमात्राभिमानतः । सप्तभंग्यर्पणाल्लिंगभेदादेवार्थभेदतः ॥३४॥ अस्य शब्दनयस्य ऋजुसूत्राद्विशेष उत्कर्षः भावमात्रस्याभिमानात् जलाहरणदिक्रियाक्षमं प्रसिद्धं भावघटमेवेच्छति ॥३४॥ सामानाधिकरण्यं चेन्न विकारापरार्थयोः । भिन्नलिंगवचःसंख्यास्पशब्देषु तत्कथम् ॥३५॥ विकाराविकारार्थकशब्दयोः पलालं दाह: भिन्नलिंगादिरूपाणि येषु; तादृशेषु शब्देषु कथं सामानाधिकरण्यं ? न कथंचिदित्यर्थः ॥३५॥ नयः समभिरुढोऽसौ यः सत्स्वर्थेष्वसंक्रमः । शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ॥३६॥ यः सत्स्वर्थेषु घटादिष्वसंक्रमो घटाद्यन्यशब्दवाच्यत्वं समभिरूढः ॥३६।। तटस्तटं तटीत्यादौ शब्दभेदोऽर्थभिद्यदि । तद् घट: कुंभ इत्यादौ कथं नेत्यस्य मार्गणा ॥३७॥ संज्ञार्थतत्त्वं न ब्रूते त्वन्मते पारिभाषिकी। अनादिसिद्धः शब्दार्थों नेच्छा तत्र निबन्धनम् ॥३८॥ पारिभाषिकी संज्ञा डित्थडवित्थादिका ॥३८॥ एवंभूतस्तु सर्वत्र व्यञ्जनार्थविशेषणः । राजचिन्हैर्यथा राजा नान्यथा राजशब्दभाक् ॥३९॥ व्यञ्जनं शब्दस्तेनार्थं विशेषयति स एवंभूतः ॥३९॥ सिद्धो न तन्मते जीवः प्रोक्तः सत्त्वादिसंड्यपि । महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः ॥४०॥ जीवोऽजीवश्च नोजीवो नोअजीव इतीहिते। जीव: पंचस्वपि गतिष्विष्टो भावैर्हि पंचभिः ॥४१॥ जीवः, अजीवः, नोजीवः, नोअजीवः, एषां लक्षणानिऔदयिकक्षायिक-क्षायोपशमिकौपशमिकपारिणामिकलक्षणैः पंचभिर्लक्षितो जीवः ॥४१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280