Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
२९४.48
* महोपाध्यायश्रीकृत-नयविषयककृति: * पंचवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् ।
न तद्बोधे विषयताऽपरांशे व्यावहारिकी ॥२८॥ अपरांशे कृष्णेतरवर्णाशे व्यावहारिकी विषयता नास्ति ॥२८॥
भावत्वे वर्तमानत्वव्याप्तिधीरविशेषिता । ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः ॥२९॥ इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः ।
क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते ॥३०॥ अनेन ऋजुसूत्रनयेन एकत्र धर्मिणि अवस्थान्तरसमागमो भिन्नावस्थावाचकपदार्थान्वयो नेष्यते न स्वीक्रियते, कुत ? क्रिया साध्यावस्था, अन्या च निष्ठा सिद्धावस्था तयोर्या भिदा भिन्नकालसंबन्धस्तदाधारस्यैकद्रव्यस्याभावात् ॥३०।।
पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् ।
नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ॥३१॥ अत्रार्थेऽभियुक्तसंमतिमाह-पलालमिति-अत्र दहनादिक्रियाकाल एव तन्निष्ठाकाल इति दह्यमानादेर्दग्धत्वाद्यव्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात्पलालं न दहत्यग्निरित्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते । विधिमुखस्तु व्यवहारोऽत्रापलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यतीत्येवमाकार एव द्रष्टव्यः । अत एव "सो समणो पव्वईओ" इत्यादि क्रियमाणं कृतमेव, कृतं तु क्रियमाणत्वे भजनीयमिति सिद्धान्तः संगच्छते । तदाह भाष्यकार: -
"तेणेह कज्जमाणं णियमेण कयं कयं तु भयणिज्ज । किंचिदिह कज्जमाणं उवरयकिरियं च होज्जाहि ॥१॥ इति" ॥३१॥
दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः ।
शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् ॥३२॥ शाटी दग्धेति कथं तदानीं शाटीदाहक्रियाकालसंवलितस्य तन्निष्ठाकालस्याभावादिति ? उत्तरं - शाट्येकदेशे दह्यमानेऽपि तत्र स्कन्धोपचारतः शाटीस्कन्धवाचकशाटीपदोपचाराच्छाटी दग्धेति वचनमेतन्नयाश्रयमृजुसूत्राभिप्रायकं ज्ञेयम् ॥३२॥
विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः ।
तरप्प्रत्ययनिर्देशाद्विशेषिततमेऽगतिः ॥३३॥ विशेषिततरः प्रत्युत्पन्नाश्रयः ऋजुसूत्राभिमतग्राही नयः शब्द इति । अत्र तरप्प्रत्ययात्तमप्प्रत्ययो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280