Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 241
________________ अनेकान्तव्यवस्था जे वणिज्जवियप्पा संजुज्जंतेसु होइ एएसु । सा ससमयपण्णवणा तित्थयरासायणा अण्णा ॥ सन्मति १-५३॥ ये-वचनीयस्य-अभिधेयस्य, विकल्पाः- तत्प्रतिपादका अभिधानभेदाः संयुज्यमानयो:अन्योन्यसम्बद्धयोर्भवन्ति । अनयोः द्रव्यास्तिकपर्यायास्तिकनयवाक्ययोः । ते च कथंचिन्नित्य आत्मा कथंचिदनित्य इत्येवमादयः । सा एषा स्वसमयस्य तत्त्वार्थस्य प्रज्ञापना - निदर्शना, अन्यानिरपेक्षनयप्ररूपणा तीर्थकरस्याशातना अधिक्षेपः तत्प्ररूपणोत्तीर्णत्वात् । उत्सर्गतः स्याद्वाददेशनाया एव तीर्थकरेण विहितत्वात् । 'विभज्जवायं च वियागरेज्जा' इत्याद्यागमवचनोपलम्भात् । पुरुषविशेषमपेक्ष्यापवादतस्त्वेकनयदेशनायामपि न दोषः । तदाह सन्मतौ पुरिसज्जायं तु पडुच्च, जाणओ पन्नवेज्ज अन्नयरं । परिकम्मणानिमित्तं, ठाएहि सो विसेसंपि ॥ सन्मति १-५४ ॥ - पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं प्रतीत्याश्रित्य ज्ञकः स्याद्वादवित्, प्रज्ञापयेदन्यतरत् अज्ञातपरिकर्मनिमित्तं अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्परविनिर्भागरूपम् । ततश्चेयं एकनयदेशनापि भावतः स्याद्वाददेशनैवेति फलितम् ॥ सप्तभङ्गीनिरूपणम् : अतः स्याद्वाददेशनाया एव परिणतजिनवचनानामभ्यर्हितत्वात् तद्वाक्यमुपदर्श्यते - (१) स्यादस्त्येव घटः । (२) स्यान्नास्त्येव । ३) स्यादवक्तव्यं एव । (४) स्यादस्त्येव स्यान्नास्त्येव । (५) स्यादस्त्येव स्यादवक्तव्य एव । (६) स्यान्नास्त्येव स्यादवक्तव्य एव । (७) स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव । तत्रासत्त्वोपसर्जन-सत्त्वविवक्षायां प्रथमो भड्ङ्गः । सत्त्वोपसर्जनासत्त्वविवक्षायां द्वितीयः । Jain Education International ૧૯૯ युगपदुभयविवक्षायां तृतीयः । एते च त्रयो भङ्गाः गुण- प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः । स्यात्कारपदलाञ्छितैतद्वाक्याद् विवक्षाकृतप्रधानभावसदाद्येकधर्मात्मकस्यापेक्षितापरशेषधर्मक्रोडी For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280