Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 239
________________ * अनेकान्तव्यवस्था है ૧૯૭ कुत? इत्याह - धणिभेयाओ भेओ त्थीपलिंगाभिहाणवच्चाणं । पडकुंभाणं व जओ तेणाभिन्नत्थमिटुं तं ॥ ___ यादृशो ध्वनिस्तादृश एवार्थोऽस्येष्ट इति । अन्यलिङ्गवृत्तेस्तु शब्दस्य नान्यलिङ्गवाच्यमिच्छत्यसौ । नाप्यन्यवचनवृत्तेः शब्दस्य अन्यवचनवाच्यं वस्त्वभिधेयमिच्छत्यसौ इति भावः । समभिरूढेन सहास्य मतभेदं दर्शयति - बहुपज्जायं पि मयं सद्दत्थवसेण सद्दस्स। 'बहुपर्यायमपि' - 'इन्द्रः शक्रः पुरन्दरः' इत्यादिनानापर्यायवाच्यमप्येकमिन्द्रादिकं वस्तु 'शब्दस्य' इन्द्रादेरिन्दनादिको योऽर्थस्तद्वशेन शब्दनयस्य मतमभिमतम् । इन्दन-शकन-पूर्दारणादीनामर्थानामेकस्मिन्निंद्रादिके वस्तुनि समावेशासम्भवात् । समभिरूढस्तु नैवं मन्यत इति स्फुटीभविष्यतीत्यनयोर्भेदः ॥ समभिन्ढनयनिरूपणम् : एकामेव सज्ञां समभिरोहतीति समभिरूढः । आह च भाष्यकृत् जं जं सण्णं भासइ तं तं चिय समभिरोहए जम्हा । सण्णंतरत्थविमुहो तओ णओ समभिढो त्ति ॥२२३६॥ यां यां संज्ञां 'घटः' इत्यादिरूपां भाषते तां तामेव यस्मात् संज्ञान्तरार्थविमुखः कुटकुम्भादिशब्दवाच्यार्थनिरपेक्षः समभिरोहति - तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, ततः - तस्मादर्थसमभिरोहणात् समभिरूढो नयः । यो घटशब्दवाच्योर्थस्तं कुटकुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः । वत्थूओ संकमणं होइ अवत्थु णए समभिरूढे ।। इति नियुक्तिदलम् । ' एतन्नये परगतस्य दानहरणादेर्नास्त्येव सद्भावः, स्वगतं तत्फलं तु स्वगतदानहरणादिअध्यवसायविशेषादेवेति विवेचितमन्यत्र ।। अयं पुनरिह शब्दसमभिरूढयोरवान्तरविशेषोऽनुसंधेयः यदायेन बाह्यवस्तु सन्निधापितस्तदाकाराध्यवसायः फलक्षमोऽभ्युपेयः, द्वितीयेन तु वासनामात्रोत्थापित इति । इत्थमेव नैगमनये जीवाजीवयोहिंसा, सङ्ग्रहव्यवहारयोः षट्स्वेव कायेषु, ऋजुसूत्रे प्रतिजीवं भिन्ना भिन्ना सा, शब्दनये तु स्वपरिणामविशेषरूपैव सा इत्यादि नयविचारे शब्दसमभिरूढयो वहिंसाद्याश्रित्य विषयभेदः सङ्गच्छते । एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिषेधादेव विशिष्यत इति न तत्र युक्त्यन्तरं मृग्यम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280